Book Title: Chellana Mahasati Charitram Author(s): Shubhshil Gani Publisher: Shravak Hiralal Hansraj View full book textPage 5
________________ चेल्लणा 12 परिणीता वा कुमारी विद्यते ? तापसो प्राह, राजन् ! वैशालोनगराधीशस्य चेटकाख्यभूपस्येयं सुज्येष्टा 12. ख्या तनया वर्तते, तस्या एव चेदं स्वरूपं मया चित्रितमस्ति. किंचेयमद्यापि कुमार्येव वर्तते, नुनं त्वचरित्रं ID मेव च तामुद्वोढुमर्हसि. तत् श्रुत्वा हृष्टोऽसौ श्रेणिकनृपस्तां तापसी दानेन संतोष्य विससर्ज. अथ त॥ 4 // चित्रदर्शनतोऽत्यंत मन्मथविहलीभूतस्तां सुज्येष्टामुद्रोढुकामो नृपः शून्यचित्त इवाजनि. ततोऽसौ चेट- कनृपपाश्वे चतुरमेकं दूतं प्रेष्य तां सुज्येष्टां मार्गयामास, परं स चेटकनृपों दूतं जगाद, भो दूत ! अहं मदीयां पुत्री सुज्येष्टां श्रेणिकनृपाय दातुं नेच्छामि. तदा स दूतोऽपि पश्चादागत्य चेटकोक्तं वचनं श्रेणिकभूपाय निवेदयामास. तदाकासो भृशं खिन्नोऽभूत्. अथैवं म्लानमुख निजजनकं विलोक्येगिताकारेण च तस्य मनोगतं भावं विज्ञायाभयकुमारो विहितांजलिरवदत, भो तात ! त्वं खेदं मा कुरु ? अहं केनाप्युपायेन भवतां सभोहितं साधयिष्यामि. एवं वैनयिंक्या बुध्या निजतातं संतोष्याभयकुमारो निजगृहे समायातः. निजतातमनोरथपूरणाय चैकं चित्रकलाकुशलं चित्रकारं समाह्वयत्, तं च निजजनकस्य श्रेणिकनृपस्य मनोहरं स्वरूपं चित्रपट्टे चित्रयितुमादिशत्. तदाज्ञानुसारेण स चित्रकारोऽपि / ॐॐॐॐॐॐॐॐॐ PP. Ac. Gunratnasuri M.S Jun Gun AaradhakPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14