Book Title: Chellana Mahasati Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 11
________________ चेल्लणा निजपुत्रमभयकुमारं समादिदेश. ततोऽभयाराधितः सुरतस्तथैवैकस्तंभमावासं सर्वर्तुफलवाटिकायुतं च कार. अथ तस्मिन्नावासे वसंती चेल्लणाराज्ञी एकाग्रचित्ता जिनपूजां कुर्वती धर्मध्यानं करोतिस्म. क्रमेण चरित्रं सा चेल्लणाराज्ञी शीलपालनविषये तथा दृढचित्ताभूत् , यथा जिनाधीशः श्रीवीरप्रभुः सुलसाया इव त 2 // 11 // स्या अपि श्लाघां करोतिस्म. अथैकदा श्रीमहावीरः प्रभुस्तत्र राजगृहे नगरे उद्याने समवस्मृतः. श्रेणिकश्च / चेल्लणादिपरिवारयुतो जिनवंदनार्थमुद्याने चचाल. इतो मार्गे कमपि जिनकल्पिसाधु कायोत्सर्गस्थ थेकिलणायुतः श्रेणिकोऽवंदत. अथ समवसरणस्थं प्रभुं वंदित्वा श्रेणिकनृपः परिवारयुतः प्रभोधर्मदेशनां शु श्राव. ततो निजस्थाने समेत्य संध्याकार्य समाप्य नृपतिर्निशायां सुप्तः. इतो निद्राधीना चेल्लणा स्वप्नाव की स्थायां, गतदिने मार्ग कायोत्सर्गस्थं तं साधु संस्मृत्य मुखतो जगाद, अहो ! अस्मिन् कराले शीतकाले का तस्य कावस्था भविष्यतीति: इति श्रुत्वा रुष्टो नृपः प्रातः समवसरणे समागत्य श्रीवीरप्रभुमपृच्छत्, भगवन् ! मम प्रिया सा चेल्लणा किं सती वा असती वर्तते ? भगवानुवाच, भो श्रेणिक! सा त्वदीया चेलणा राज्ञी महासती वर्तते; एवं सर्वा अपि तव पत्न्यः सत्य एव संति. तव चेतसि च तस्या वचनतो P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 9 10 11 12 13 14