Book Title: Chellana Mahasati Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/036426/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Serving Jinshasan a .. MAITREETESTIMES 073275 gyanmandir@kobatirth.org G72) यसभर धरि विवादित मादी कि वारापना - +3275 // श्री जिनायनमः // // श्री चारित्रविजयगुरुभ्यो नमः॥ ॥चेल्लणामहासतीचरित्रं // ययाधीरे से पापना - (कर्ता-श्रीशुभशीलगणि) छपावी प्रसिद्ध करनार -पंडित श्रावक हीरालाल हंसराज ( जामनगरवाळा ) श्रीजैनभास्करोदय पिन्टिंग प्रेस-जामनगर. ___सने 1929 मूल्य रु. 0-8-0 सां. 1986 र PARTomorabji) PoraShtobpmaAIR PP AC Gunrainasuri M.S. Jun Gun Aaradhak Trusi. .' Page #2 -------------------------------------------------------------------------- ________________ चरित्रं // श्रीजिनाय नमः / / // श्रीचारित्रविजयगुरुभ्यो नमः // // अथ श्रीचेल्लणामहासतीचरित्रं प्रारभ्यते // (कर्ता-श्रीशुभशीलगणी॥ छपावों प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज (जामनगरवाळा) पालयन् रुचिरं शीलं / शुद्धभावेन देहमान् // चेल्लणेव समाप्नोति / कल्याणकमलां किल // 1 // तथाहि-विशालायां नगयों चेटीकृतानेकारातिश्चेटकाभिधो जैनधर्मधुरंधरो राजा राज्यं करोतिस्म. सी च न्यायपुरस्सरं निजराज्यं पालयन् सकलां निजप्रजां सर्वदा प्रीणयामास. तस्य राज्ञः पृथक् पृथक् रा ज्ञीकुक्षिसमुद्भवाः शुभस्वप्नैश्च सूचिताः सप्त कन्या अभवन्. क्रमात्तासुप्रभावत्यभिधाना प्रथमा पुत्रो M वीतभयनगरवामिन उदीयनॉख्यभूपतेर्दत्ता 1. द्वितीया पद्मावत्यभिधा पुत्रा चंपाधीशस्य दधिवाहनाख्य- 2 PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #3 -------------------------------------------------------------------------- ________________ स्य भूपतेर्दत्ता 2. तृतोया मृगावतो कौशांबोनाथस्य शतानोकाख्यस्य नृपते देता 3. चतुर्थी शिवाख्या | चेल्लणा तनया उज्जयिनीस्वाभिनः प्रद्योतनाख्यस्य भूपतेर्दत्ता 4. पंचमी ज्येष्टाख्या पुत्री कुंडग्रामाधिपस्य श्रीवोचरित्रं रप्रभुज्येष्टभ्रातुनदिवर्धनस्यं दत्ता 5. षष्ठो सुज्येष्टा, सप्तमो च चेल्लणाऽयापि कुमारिके एव राजभुवने में // 2 // तिष्टतःस्म. ते द्वे अपि कन्ये रतिप्रोतितुल्ये अतुल्यरूपश्रियं धारयं या धर्मका कुशले बभूवतुः. सकल कलाकलापकुशले ते द्वे अपि मिथः परमप्रोतियुते साक्षात् मार्तद्वयरूपे सरस्वत्याविव रेजतुः. अथान्ये युस्ताभ्यां सुज्येष्टाचेल्लणाभ्यामलंकृते शुद्धांतःपुरे कापि स्थविरा मिथ्यात्विनी तापप्ती समागता. सा च तयोरग्रे शिवधर्मोपदेशं दातुं लग्ना, तया च तस्य शिवधर्मस्य महतो प्रशंसा कृता. परं जैनधर्मदृढहदिया सुज्येष्टा तयोक्त शिवधर्म तिरस्कारयामास. यथा-कूपे स्यादधमं स्नानं / वापीस्नानं च मध्यमं // तडागे वर्जयेत् स्नानं / नद्यां स्नानं न शोभनं // 1 // गृहे चैवोत्तमं स्नानं / नदीस्नानं तु मध्यमं // कूपे / चाप्यधर्म स्नानं / तडागे नैव कारयेत् // 2 // इत्याधुक्त्वा तया सुज्येष्टया जिनधर्मे स्थापिते सति क्रुद्धा 2 सा तापसी उल्लंठतया यथातथा जल्पितुं लग्ना, जिनधर्मस्य च निंदां कतुं प्रवृत्ता. तदा कोपातुराभ्यां Jun Gun Aaradhak TN Page #4 -------------------------------------------------------------------------- ________________ चरि // 3 // 4 ताभ्यां सा तापसी निजचेटिकापादि पंद्रप्रदानेन गले होत्वा निजांतःपुराद् बहिर्निष्कासिता. ततः 12 चेल्लणा 2 फालच्युता व्याघ्रीवातोवकोपातुरा सा तापसी एवमलब्धसन्माना प्राप्तपराभवा च दध्या, नूनं सा सु-12 ज्येष्टा निजवैदुष्यगार्वता विद्यते, अथ तामहं केनाप्युपायेने सपत्नोसंभवे भूरिदुःखे पातयामि. इति ध्या-2 त्वा परमं द्वेषं प्राप्ता ता तापसो तस्याः उन्मेष्टायाः सविशेष स्वरूपं केनापि कुशलेन चित्रकारेण पट्टे 2 समालेखयामास. ततः सा तं चित्रपटुं तनादाय राजगृहे नगरे तापाता. केनाप्युपायेनाता तापसी, "तत्र श्रेणिकनृपं मिलित्वा तं चित्रपटं दर्शयामास. अथ तत्र चित्र? समालेखितं तस्याः पुज्येष्टाया | मनोह स्वरूपं दृष्ट्वा में श्रेणिकनृपो दध्यो, फिमेषा सुरांगना ? किं वा कापि पातालकन्या वर्तते ? इ-12 त्यादि विचिंत्य कामविह्वलः स नृपस्तां तापलोमपृच्छत् . भो नापसि ! अत्र चित्रपट्टे या सुंदरी त्वया चि-15 त्रितास्ति, सा कि कापि विद्यमानास्ति ? वा त्वा किं कृत्रिममेव स्वरूपं चित्रकलाप्रदर्शनायालेखितमस्ति ? तत् श्रुत्वा तापस्या प्रोकं. हे राजन् ! इयनाविता दरो विनानैव मयालेखितास्ति, न, चेदं कृत्रिमं स्वरूपं वर्तते. तः। श्रुत्वा राज्ञा तस्यै पुनः पृष्टं तदैषा कस्य पु. विद्यते ? तथैव सा किं / Jun Gun Aaradhak Trust OMGEOGeeeeeeeeee PATAC.Gunratnasuri M.S. . Page #5 -------------------------------------------------------------------------- ________________ चेल्लणा 12 परिणीता वा कुमारी विद्यते ? तापसो प्राह, राजन् ! वैशालोनगराधीशस्य चेटकाख्यभूपस्येयं सुज्येष्टा 12. ख्या तनया वर्तते, तस्या एव चेदं स्वरूपं मया चित्रितमस्ति. किंचेयमद्यापि कुमार्येव वर्तते, नुनं त्वचरित्रं ID मेव च तामुद्वोढुमर्हसि. तत् श्रुत्वा हृष्टोऽसौ श्रेणिकनृपस्तां तापसी दानेन संतोष्य विससर्ज. अथ त॥ 4 // चित्रदर्शनतोऽत्यंत मन्मथविहलीभूतस्तां सुज्येष्टामुद्रोढुकामो नृपः शून्यचित्त इवाजनि. ततोऽसौ चेट- कनृपपाश्वे चतुरमेकं दूतं प्रेष्य तां सुज्येष्टां मार्गयामास, परं स चेटकनृपों दूतं जगाद, भो दूत ! अहं मदीयां पुत्री सुज्येष्टां श्रेणिकनृपाय दातुं नेच्छामि. तदा स दूतोऽपि पश्चादागत्य चेटकोक्तं वचनं श्रेणिकभूपाय निवेदयामास. तदाकासो भृशं खिन्नोऽभूत्. अथैवं म्लानमुख निजजनकं विलोक्येगिताकारेण च तस्य मनोगतं भावं विज्ञायाभयकुमारो विहितांजलिरवदत, भो तात ! त्वं खेदं मा कुरु ? अहं केनाप्युपायेन भवतां सभोहितं साधयिष्यामि. एवं वैनयिंक्या बुध्या निजतातं संतोष्याभयकुमारो निजगृहे समायातः. निजतातमनोरथपूरणाय चैकं चित्रकलाकुशलं चित्रकारं समाह्वयत्, तं च निजजनकस्य श्रेणिकनृपस्य मनोहरं स्वरूपं चित्रपट्टे चित्रयितुमादिशत्. तदाज्ञानुसारेण स चित्रकारोऽपि / ॐॐॐॐॐॐॐॐॐ PP. Ac. Gunratnasuri M.S Jun Gun Aaradhak Page #6 -------------------------------------------------------------------------- ________________ .. चेल्लणा स्तोकैरेव दिनैरतीवसुंदरं श्रेणिकनृपस्वरूपं चित्रपट्टे चित्रयित्वाऽभयकुमाराय समर्पयत्. तन्मनोहरं चि. . तितस्वरूपं विलोक्य संतुष्टोऽभयकुमारस्तस्मै चित्रकारायः सन्मानपुरस्सरं भूरि द्रव्यं ददौ. अथ स्वकीय-2 चरित्रं कि वेषपरावर्तनं विधाय वणिग्वेषं च कृत्वा स वैशालीनगया समायातः. तत्र च स. भूपांतःपुरनिकटे भाट- 2 केनैकमापणं जग्राह. आपणे च विविधसुगंधिद्रव्याणि, मनोहरदर्पणान् , सुगंधितैलानि, मनोहरचीवस- 2 यादीनि महिलागणहृदयाकर्षणाय स्थापयामास. अथ तत्र क्रयार्थमागतानामंतःपुरचेटीनां स्वल्पेनैव मू ल्येनभूरि सुगंधिद्रव्यतैलादोनि सोऽर्पयामास. तेन सर्वा अप्यंतःपुरदास्यस्तस्यैवापणात्तानि वस्तूनि जग्रहः. [का ततः कियदिनानंतरं सोऽभयकुमारः पटे चित्रितं तत्श्रेणिकनृपस्वरूपं निजापणद्वाराग्रे प्रलंबितं स्थापयामास. इतो वस्तुकयाथ तत्र समागता सुज्येष्टाया दासी प्रलंबितं तं मनोहरं चित्रपटं दृष्ट्वा प्राप्तकोतुकाऽभयकुमारं पप्रच्छ, भो वणिगुत्तम ! कस्येदं मनोहरं स्वरूपं विद्यते ? अभयेनोक्तं; इदं हि मदीयस्वामिनः श्रेणिकभूपस्य स्वरूपमालेखितं वर्तते. ततो गृहीतसुगंधिद्रव्यजाता सा दासी सुज्येष्टायाः समीपे समेत्य तच्चित्रस्वरूपवार्तामकथयत्. तदा कौतुकोत्ताला सा सुज्येष्टापि तच्चित्रपट्टदर्शनातुरा दासी VEGEVECS वापीर के माराधनः न.. मक्क्षदर परि जक्य P.P.AC Gunratnasur MS Jun Gun Aaradhak Trust Page #7 -------------------------------------------------------------------------- ________________ चेल्लणा चरित्रं प्राह, भो दासि ! विलोकनार्थ तच्चित्रपट द्रुतं तस्य वणिजः पार्थात्त्वं समानय ? एवं तयादिष्टां सां दा2. स्यपि द्रुतमभयकुमारपावे समागत्य निजस्वामिन्या विलोकनार्थ तं चित्रपटं मार्गयामास. निजप्रयत्न2. स्य भाविसाफल्यं मन्यमानोऽभयकुमारोऽपि तस्यै तं चित्रपट्टमर्पयामास: अथ दास्यानीतं तं चित्रपट विलोक्य प्रेमकपरायणा सुज्येष्टा व्यन्तियत्। नूनमय श्रेणिको नृपो विधात्रा कस्मिंश्विन्निवृतिदिने एवं घटितः संभाव्यते. एवंविधं रूपलावण्यादिगुणगुणोपेतं स्वरूपं मया कस्यापि पुरुषस्य विलोकितं नास्ति. अथाहं कैनाप्युपायेनैनमेव श्रेणिकभूपं परिणेष्यामि. इति ध्यात्वा तया तस्यै दास्यै प्रोक्तं, भो दासि! त्वयि मम संपूर्णो विश्वासो वर्तते, अतस्त्वया मदीयोऽभिलाषः कस्याप्यन्यस्याये न वक्तव्यः, अथक त्वमेनं चित्रपटं तस्मै वणिजे पश्चात्समर्प्य कथयस्व ? यथा मम स्वामिनी सुज्येष्टा श्रेणिकभूपं परिणेतुमिच्छति. अतस्त्वं केनाप्युपायेन तस्या मनोरथं सफलीकुरु ? एवं सुज्येष्टादिष्टा सा दासी द्रुतमभयकुमारपाचे समागत्य तं चित्रपटं च तस्मै पश्चात् समर्प्य निजस्वामिनीमनोरथं रहसि कथयामास. तत् श्रुत्वा प्रसन्नवदनेनाभयकुमारेण प्रोक्तं, भो दासि ! नुनमहं तव स्वामिन्या मनोरथमवसरे पूरयिष्यामि. PAC Gunnan asur M.S Jun Gun Aaradhak Page #8 -------------------------------------------------------------------------- ________________ वेल्लणा चरित्रं दास्यापि तदुक्तं निजस्वामिन्यै सुज्येष्टाय ज्ञापितं. तत् श्रुत्वा हृष्टा सुज्येष्टापि तमवसरं विलोकमाना ... स्थिता. ततोऽभयकुमारेण प्रच्छन्नं तदीयांतःपुरावधि पृथ्व्यंतरेका सुरंगा कारिता, निजजनकाय श्रेणिकाय च ज्ञापितं, त्वया इतस्तृतीयेऽह्नि प्रच्छन्नमस्यां सुरंगायामागंतव्यं तत्रागता सुज्येष्टा च त्वां परिणे-19"" व्यति. ततस्तेन दास्य प्रोक्तं, त्वदीया स्वामिनी इतस्तृतीये दिनेऽस्यां सुरंगायामागच्छतु, तत्र स्वयमागतः श्रेणिकभूपस्त्वां निजनगरे नेष्यति, अथ परमानंद प्राप्तः स श्रेणिकनृपो निजांगरक्षकैात्रिंशद्भिः सुलसायाः सुतैयुतो रथारूढो निश्चितदिने सुरंगायां समायातः. म अथ गमनोत्सुका चलचित्तां च सुज्येष्टां विज्ञाय चेल्लणा तामपृच्छत्, भो भगिनि ! अद्य त्वं कथं चिलचित्ता विलोक्यसे ? कुत्र गमनोत्सुका जातासि ? तत् श्रुत्वा सुज्येष्टयाऽलीकं जल्पितं, अहं तु कुवापि गमनोत्सुका नास्मि. परं तदीयहृदयभावज्ञानविदग्धा चेल्लणा पुनरपि जगो, भो भगिनि ! त्वं सत्यं कथयख ? अद्य यावन्मया त्वत्तः किमपि गूढं रक्षितं नास्ति, त्वं चैवं मत्तः प्रच्छन्नं किं रक्षसि / एवं सनिबंध तया पृष्टा सुज्येष्टा तस्यै निजहृदयाभिलाषं जगो. तत् श्रुत्वा चेल्लणावदत् , अरे भगिनि! 2 PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #9 -------------------------------------------------------------------------- ________________ अहं त्वांविना क्षणमपि स्थातुं समर्थानास्मि. अतोऽहमपि त्वया त्वत्सार्धमेव रथे समारोपणीया. इत्यु क्त्वा सापि सुज्येष्टया सममेव सुरंगायां प्रविष्टा, श्रेणिकस्य रथे च समारूढा. इतः सुज्येष्टा चेल्लणास // 8 // वदत्, मया मदीया रत्नकरंडिका विस्मृता, अतस्ता समादायाधुनैवाहं पुनरागच्छामि, इत्युक्त्वा सा-र-- कलकरंडिकामादातुं पुनरंतःपुरमध्ये गता. इतस्तां चेल्लणां रथाधिरुढा सुज्येष्टामेव मन्यमानेस्तैः सुभटैः श्रेणिकाय प्रोक्तं, हे स्वामिन् ! अत्र वैरिगृहे चिरं स्थातुं नमुक्तं, ततो रथं द्रुतं पश्चादाहयत ? तत् श्रुत्वा रथस्थचेल्लणायुतः श्रेणिकभूपो द्रुतं रथाश्वान् निजपुरंप्रति घोरांधकारायां सुरंगायां वाहयामास. इतो र-4) क्करंडिकां समादाय तत्रागता सुज्येष्टा श्रेणिकरथमप्रेक्ष्य व्याकुलीभूता, म्लानमुखा, स्वभगिनीवियोमपीडिता प्रोच्चैस्तरं गाढं पूत्कारं कर्तु लग्ना. एवं सुज्येष्टाया रुदनस्वरं श्रुत्वा तत्रागतश्चेटकभूपश्चेल्लणाया हरणं विज्ञाय, स्वयं सन्नह्य वैरिपृष्टे गंतुं सुरंगायाः पावें समायातः. इतस्तस्य सैन्याधिपो वरंगिः काभिधो महासुभठस्तत्रागत्य चेटकंप्रत्यक्दत्, हे! स्वामिन् ! अहसेक तस्य वरिणः पृष्टे गत्वा, तं च-ह...त्याधुनव चेल्लणा पश्चादानयिष्यामि, इत्युक्त्वाः सः रथस्थो भरिवेजोन श्रेणिकपृष्टे सुरंगायां चचाल. तत: Jun Gun Aaradhak Trust PP.AC. Gunratnasuri M.S. Page #10 -------------------------------------------------------------------------- ________________ चेल्लया। सुरंगायामेव युद्धं कुर्वता तेन श्रेणिकांगरक्षका सुलेसीया द्वात्रिंशत्पुत्रा हताः: इतः श्रेणिकनृपोऽप्यतिवे गेनाश्चो प्रेरयन् सुरंगाया बहिनिःसृत्य राजगृहप्रत्यंचालीत्. वैरंगिकश्च निष्फलीभूतो म्लानास्यः पश्चात्सचरित्रं ID मायातः. अथ चेल्लणावियोगात् खिन्ना सुज्येष्ठा स्वमनोरथं चालभमाना विषयेभ्यो विरक्ता पितरमापृच्छय का // 9 // चंदनार्यायाः समीपे प्रवज्यामुपाददे. अथ मागें सुज्येष्टाया अभिधानेनाह्वयंतं श्रेणिकंप्रति चेल्लणावत्, स्वामिन् ! सुज्येष्टा तु न समायाता, तत्कनिष्टा भगिनी चेल्लणाभिधानाहं समागतास्मि. तत् श्रुत्वाणको व्याजहार, तर्हि मुधैव मम प्रयासोऽभूत्. तदा चेल्लणा जगौ, स्वामिन् ! अहमपि तस्या एव कनिष्टा / भगिनी तव वल्लभा जातास्मि. तत् श्रुत्वा श्रेणिकोऽपि तस्याश्चेल्लणाया लाभादपि स्वं कृतार्थ मन्यमानः | परमानंदं प्राप्तः क्रमेण राजग्रहे नगरें समायातः. सर्वेषामपि सुलसापुत्राणां च मरणं निशम्य स युगपदेव हर्षविषादाभ्यामालिंगितः ततः श्रेणिकभूपो महोत्सवेन तां चेल्लणां पर्यणेषीत्. अथ निजपुत्राणां मरणं निशम्य सुलसातीवविलापं चकार. परमभयकुमारस्तामनित्यभावनाभिन्नैः कोमलर्वचनामृतैराश्वासयामास. अथ चेल्लणाया विनयादिगुणैरतीवसंतुष्टः श्रेणिको नृपस्तस्याः कृते एकस्तंभमावासं कारयितुं / Ac. Gunratnasuri M.S. . . Jun Gun Aaradhak Trust Page #11 -------------------------------------------------------------------------- ________________ चेल्लणा निजपुत्रमभयकुमारं समादिदेश. ततोऽभयाराधितः सुरतस्तथैवैकस्तंभमावासं सर्वर्तुफलवाटिकायुतं च कार. अथ तस्मिन्नावासे वसंती चेल्लणाराज्ञी एकाग्रचित्ता जिनपूजां कुर्वती धर्मध्यानं करोतिस्म. क्रमेण चरित्रं सा चेल्लणाराज्ञी शीलपालनविषये तथा दृढचित्ताभूत् , यथा जिनाधीशः श्रीवीरप्रभुः सुलसाया इव त 2 // 11 // स्या अपि श्लाघां करोतिस्म. अथैकदा श्रीमहावीरः प्रभुस्तत्र राजगृहे नगरे उद्याने समवस्मृतः. श्रेणिकश्च / चेल्लणादिपरिवारयुतो जिनवंदनार्थमुद्याने चचाल. इतो मार्गे कमपि जिनकल्पिसाधु कायोत्सर्गस्थ थेकिलणायुतः श्रेणिकोऽवंदत. अथ समवसरणस्थं प्रभुं वंदित्वा श्रेणिकनृपः परिवारयुतः प्रभोधर्मदेशनां शु श्राव. ततो निजस्थाने समेत्य संध्याकार्य समाप्य नृपतिर्निशायां सुप्तः. इतो निद्राधीना चेल्लणा स्वप्नाव की स्थायां, गतदिने मार्ग कायोत्सर्गस्थं तं साधु संस्मृत्य मुखतो जगाद, अहो ! अस्मिन् कराले शीतकाले का तस्य कावस्था भविष्यतीति: इति श्रुत्वा रुष्टो नृपः प्रातः समवसरणे समागत्य श्रीवीरप्रभुमपृच्छत्, भगवन् ! मम प्रिया सा चेल्लणा किं सती वा असती वर्तते ? भगवानुवाच, भो श्रेणिक! सा त्वदीया चेलणा राज्ञी महासती वर्तते; एवं सर्वा अपि तव पत्न्यः सत्य एव संति. तव चेतसि च तस्या वचनतो P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #12 -------------------------------------------------------------------------- ________________ चेल्सनी मुल चरित्र .. // 1 // यः संदेहः समुत्पन्नस्तत्समाधानं शृणु ? ह्यस्तने दिनेत्र समागच्छता त्वया तया चेल्लणया राड्या सह / कायोत्सर्गस्थों यो मुनिर्वदितस्तमेव मुनि संस्मृत्य तया केवलं कृपयैव स्वप्नावस्थायां जल्पितं, अहो! अस्मिन कराले शीतकाले तस्य निष्प्रावरणस्य मनेः काऽवस्था भविष्यतीति. परं तस्या मनसि कोऽपिका दुश्चिंतनीयों विकारों नास्ति. एवं गतसंशयः श्रेणिकभूपालो निजावासे समेत्य तां चेल्लणामधिकं सन्मानयामास. एवं श्रीवीरोक्तं धर्म चिरमाराध्य सा महासती चेल्लणा कियता कालेन श्रीवीरप्रभुपावें दीक्षा गृहीत्वा क्रमेण दुस्तपं तपस्तप्त्वा केवलज्ञानमासाद्य प्रक्षीणनिखिलकर्मा मुक्तिं गता. सा सुज्येष्टा साव्यपि शुद्धं चारित्रमाराध्य केवलज्ञानयुता मुक्तिं गता.॥ इति श्रीचेल्लणामहासतीचरित्रं समाप्त ॥श्चीरस्तु॥ आ चरित्र श्रीशुभशीलगणीजीए रचेला कथाकोष नामना ग्रंथमाथी उद्धरीने तेनी मूलभाषामां बनता | प्रयासे सुधारो वधारो करी जामनगरनिवासी पंडित श्रावक-हीरालाल हंसराजे स्वपरना श्रेयने माटे पोताना श्रीजैनभास्करोदय प्रेसमां छापीने प्रसिद्ध कयु. // समाप्तोऽयं ग्रंथः गुरुश्रीमच्चारित्रविजयसुप्रसादात् // PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust Page #13 -------------------------------------------------------------------------- ________________ चेल्लणा चरित्रं ॥१२॥का Ac. Gunrainasuri M.S. . Jun Gun Aaradhak Trust Page #14 -------------------------------------------------------------------------- ________________ 00000000000000000 નો નોતોવ કચ્છ સૈકા દો ડાં, ર–ચ્છ Abખws જિાતે જૈન બાગની 11 2383199999 કે તે તિ શ્રીપળામાંતિવરિલે સમાપ્ત છે #55454545454545 ( કિકિયા કિરિટીકા) 15 મુનિશ્રી નીતિવિજયજી જ્ઞાન ભંડાર