________________ चेल्सनी मुल चरित्र .. // 1 // यः संदेहः समुत्पन्नस्तत्समाधानं शृणु ? ह्यस्तने दिनेत्र समागच्छता त्वया तया चेल्लणया राड्या सह / कायोत्सर्गस्थों यो मुनिर्वदितस्तमेव मुनि संस्मृत्य तया केवलं कृपयैव स्वप्नावस्थायां जल्पितं, अहो! अस्मिन कराले शीतकाले तस्य निष्प्रावरणस्य मनेः काऽवस्था भविष्यतीति. परं तस्या मनसि कोऽपिका दुश्चिंतनीयों विकारों नास्ति. एवं गतसंशयः श्रेणिकभूपालो निजावासे समेत्य तां चेल्लणामधिकं सन्मानयामास. एवं श्रीवीरोक्तं धर्म चिरमाराध्य सा महासती चेल्लणा कियता कालेन श्रीवीरप्रभुपावें दीक्षा गृहीत्वा क्रमेण दुस्तपं तपस्तप्त्वा केवलज्ञानमासाद्य प्रक्षीणनिखिलकर्मा मुक्तिं गता. सा सुज्येष्टा साव्यपि शुद्धं चारित्रमाराध्य केवलज्ञानयुता मुक्तिं गता.॥ इति श्रीचेल्लणामहासतीचरित्रं समाप्त ॥श्चीरस्तु॥ आ चरित्र श्रीशुभशीलगणीजीए रचेला कथाकोष नामना ग्रंथमाथी उद्धरीने तेनी मूलभाषामां बनता | प्रयासे सुधारो वधारो करी जामनगरनिवासी पंडित श्रावक-हीरालाल हंसराजे स्वपरना श्रेयने माटे पोताना श्रीजैनभास्करोदय प्रेसमां छापीने प्रसिद्ध कयु. // समाप्तोऽयं ग्रंथः गुरुश्रीमच्चारित्रविजयसुप्रसादात् // PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust