Book Title: Chellana Mahasati Charitram Author(s): Shubhshil Gani Publisher: Shravak Hiralal Hansraj View full book textPage 8
________________ वेल्लणा चरित्रं दास्यापि तदुक्तं निजस्वामिन्यै सुज्येष्टाय ज्ञापितं. तत् श्रुत्वा हृष्टा सुज्येष्टापि तमवसरं विलोकमाना ... स्थिता. ततोऽभयकुमारेण प्रच्छन्नं तदीयांतःपुरावधि पृथ्व्यंतरेका सुरंगा कारिता, निजजनकाय श्रेणिकाय च ज्ञापितं, त्वया इतस्तृतीयेऽह्नि प्रच्छन्नमस्यां सुरंगायामागंतव्यं तत्रागता सुज्येष्टा च त्वां परिणे-19"" व्यति. ततस्तेन दास्य प्रोक्तं, त्वदीया स्वामिनी इतस्तृतीये दिनेऽस्यां सुरंगायामागच्छतु, तत्र स्वयमागतः श्रेणिकभूपस्त्वां निजनगरे नेष्यति, अथ परमानंद प्राप्तः स श्रेणिकनृपो निजांगरक्षकैात्रिंशद्भिः सुलसायाः सुतैयुतो रथारूढो निश्चितदिने सुरंगायां समायातः. म अथ गमनोत्सुका चलचित्तां च सुज्येष्टां विज्ञाय चेल्लणा तामपृच्छत्, भो भगिनि ! अद्य त्वं कथं चिलचित्ता विलोक्यसे ? कुत्र गमनोत्सुका जातासि ? तत् श्रुत्वा सुज्येष्टयाऽलीकं जल्पितं, अहं तु कुवापि गमनोत्सुका नास्मि. परं तदीयहृदयभावज्ञानविदग्धा चेल्लणा पुनरपि जगो, भो भगिनि ! त्वं सत्यं कथयख ? अद्य यावन्मया त्वत्तः किमपि गूढं रक्षितं नास्ति, त्वं चैवं मत्तः प्रच्छन्नं किं रक्षसि / एवं सनिबंध तया पृष्टा सुज्येष्टा तस्यै निजहृदयाभिलाषं जगो. तत् श्रुत्वा चेल्लणावदत् , अरे भगिनि! 2 PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak TrustPage Navigation
1 ... 6 7 8 9 10 11 12 13 14