________________
Shri Mahavir Lain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
न.
त
॥१२॥
ऊनोदरता २ वृत्तिसंक्षेप ३ रसत्याग ४ कायक्लेश ५ संलीनता ६ लक्षणं । तत्र अनशनं आहारपरित्यागरूपं द्विधा इत्वरं यावत्कथिकं च । १ इत्वरंचतुर्थषष्ठाष्टमादि यावत्कथिकं यावज्जीवमनशनग्रहणरूपं । उनोदरता एकद्विग्यादिकवलहान्या ज्ञेया १२। वृत्तिसंक्षेपः द्रव्यक्षेत्रकालभावविषयाभिग्रहण रूपः।३। यथा श्री महावीरस्य चतुर्विधाभिग्रहश्चंदनवालया पूरीतः। रसत्यागो विकृति परित्यागः।४। कायाक्लेशो लोचादिकष्टसहनं ।। संलीनता चतुर्विधा इंद्रियकषाययोगनिवारण स्पादि विवर्जितोपाश्रयनिवसनभेदैर्ज्ञातव्या ।६। एवं बाह्य तपः षड्विधं लोकप्रसिद्धं व्याख्यातम् ।
अथ आम्यंतरं तपः षडविधं । प्रायश्चित्त १ विनय २ वैयावृत्य ३ स्वाध्याय ४ ध्यान ५ उत्सर्ग ६ नामकं । तत्र प्रायश्चित्तं निजानि पातकानि | यथालग्नानि गुरूणां पुरस्तात् यत् आलोच्यते गुरूप्रदत्तं च तपः समाचर्यते तत् प्रायश्चित्तम् ॥१॥ विनयः सप्तप्रकारः ज्ञान १७ दर्शन २ चारित्र ३ मनो ४ वचन ५ काय ६ विवेककल्प प्रचारिक ७ भेदैर्ज्ञातव्यः ।२। वैयावृत्यं आचार्योपाध्यायतपस्विग्लानादीनां अन्नपानादिसंपादन विश्रामणादिरूपं ।३। स्वाध्यायःवाचना-पृच्छना-परावर्त्तना-ऽनुप्रेक्षा-धर्मकथालक्षणः पंचभेदः ।४। ध्यानं आरौद्रधर्मशुक्लरूपं ।। तत्र आतरौद्रयोः परिहारः धर्मशुक्लयोः स्वीकारः एतौ परिहारस्वीकारौ ध्यानं कथ्यते । उत्सगों द्रव्यभावभेदाद् द्विधा ।६। तत्र आद्यःचतुर्धा गण १ देहो २ पधि ३ भक्त ४ त्याग भेदात् । भावतः पुनः क्रोधादिपरित्यागो ज्ञातव्यः। एवं पट् प्रकारं आभ्यंतरं तपः प्ररूपितं । आभ्यंतरं कस्मात्प्रोच्यते । यतो मोक्षप्राप्तौ अंतरंगकारणमिदं ततः आभ्यंतरं कथ्यते । इति सप्तमं निर्जरातत्त्वं व्याख्यातं ।
AAAAEववार
For Private and Personal Use Only