Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirm.org
Acharya Shet Kailassagersa Gyanmandir
ज० टीका
भरहेरवयप्पभिई, दुगुणादुगुणो य होइ विक्खंभो। वासावासहराण, जाव य वासं विदेहं ति ।। तथा हेमवइ चउरुत्ति हेमवते द्वितीये क्षेत्रे चत्वारि चतुः संख्याकानि खण्डानि । अढेत्यादि महाहिमवति द्वितीये वर्षधरेऽष्टौ खण्डानि हरिवर्षे तृतीयक्षेत्रे षोडशखण्डानि तथा बत्तीसमित्यादि निषधे तृतीयवर्षधरे पुनात्रिंशत् खण्डानि भवन्तीति सर्वत्र सम्बध्यते । इति महाविदेहव्यतिरिक्तेषु दक्षिणदिग्वर्तिषु वर्षवर्षधरेषु सर्वमीलने त्रिषष्टिखण्डानि जातानि । इदानी. मुत्तरदिग् व्यवस्थित क्षेत्र वर्षधरखण्डानि निरूपयति-मिलियेत्यादि । एवमेव मिलितानि समुदितानि त्रिषष्टिःखण्डानि द्वितीयपार्श्वेऽपि भवेयुस्तद्यथाएकखण्डमैरावते, द्वे शिखरिगिरौ, चत्वारि हैरण्यवतक्षेत्रे, अष्टौ रुक्मिपर्वते, पोडशरम्यक्षेत्रे, द्वात्रिंशत
तु नीलवति वर्षधर इति । चउसट्ठीत्यादि । इह पदैकदेशेऽपि पदसमुदायोपचाराद् विदेह इति महाविदेहे सर्ववर्ष वर्षधरमध्यवर्तिनि || क्षेत्रे चतुःषष्टिःखण्डानि भवनि । एतावता सर्वसंख्या किं जातमित्याह-तिराशीत्यादि त्रयश्च तेराशयश्च त्रिराशयस्तेषां पिण्डः समूहः | यद्वा त्रयाणां राशीनां समाहार खिराशि तस्य पिण्डस्तस्मिन् तु पुनरर्थे नवत्यधिकं शतं खण्डानि स्युरिति गाथाद्वयार्थः ॥५॥ ___ अथ जम्बूद्वीपे योजनपरिमाणानि खण्डानि कियन्ति भवन्तीत्यादिकं घनीकृतयोजनद्वारं गाथापचकेनाहजोयण परिमाणाई समचउरंसाइं इत्थ खंडाई । लक्खस्स य परिहीए तप्पायगुणे य हुंतेव ॥६॥
जोयणे त्ति । खण्डप्रमाणमजानानं शिष्यं प्रति गुरुस्तत्प्रमाणमाचष्टे । अत्राऽस्मिन् जंबुद्वीपे प्रक्रान्तप्रकरणे वा घनीकृत5|| योजनपरिमाणानि सम चतुरस्राणि खण्डानि योजनानि भण्यन्ते । समास्त्वल्पप्रमाणाश्चत्वारोऽस्राः कोटयो येषां तानि तथोक्तानि
॥३॥
For Private and Personal Use Only

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203