________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
A%-
55921
दश वा एतास्ते च चतुष्कषायसंज्ञा ४ लोकसंज्ञा १ ओघसंज्ञा २ क्षेपात् ।४। समचतुरस्र १ न्यग्रोध २ सादि ३ वामन ४ कुन्ज ५ हुंडक ६ भेदानि संस्थानि 1५। कषायाश्चत्वारः ।६। लेश्याः पट्-कृष्ण १ नील २ कापोत ३ तैजस ४ प ५ शुक्ल ६ रूपाः परमत्र ता द्रव्यरूपा अवस्थिता विचार्याः न भावरूपाः ।७। इन्द्रियाणि पश्च ।८। द्वौ समुद्घातौ-समवहननमात्मप्रदेशविकरणं समुद्घातः स चाजीवविषयोऽचित्तमहास्कन्धरूपः, नोजीवविषयः सप्तधा, 'वेयण १ कसाय २ मरणे ३, वेउव्विय ४ तेउए य ५ आहारे ६ । केवलिए चेव भवे, जीवमणुस्साण सत्तेव ॥१॥" ति ।९। दृष्टिविधा-मिथ्यावसास्वादनमिश्रभेदात् ।१०। दर्शनंचक्षुरचक्षुरवधिकेवलभेदाच्चतुर्विधम् ।११। ज्ञानं मतिश्रुतावधिमनःपर्यायकेवल भेदात् पञ्चधा ।१२। अत्र ज्ञानसाहचर्यादनुक्तमप्यज्ञानं ग्राह्यम् । तच्च त्रिधा मत्यज्ञानं श्रुताज्ञान विभङ्गज्ञानरूपम् । १३ । योगाः पञ्चदश, मनोयोगश्चतुर्धा, औदारिको १ दारिकमिश्र २ वेक्रिय ३ क्रियमिश्रा ४ हारका५ हारकमिश्र ६ तैजसकार्मणरूप ७ सप्तधा काययोगभेदेन ।१४। उपयोगो द्विधा, तत्र ज्ञानाज्ञानभेदाष्टकरूपः साकारोपयोगः, चतुर्भेददर्शनरूपोऽनाकारोपयोगः, संयोगे द्वादश ।१५। एकसमये उत्पद्यमानानां च्यवमानानां सङ्ख्थेति द्वारद्वयं ।१६।।१७। स्थितिरायुषो जघन्योत्कृष्टमानं ।१८। आहारादिग्रहणशक्तयः पर्याप्तयस्ताश्वषट् आहार १ | शरीरे २ न्द्रिय ३ श्वासोच्छ्वास ४ भाषा ५ मनः ६ स्वरूपाः ।१९। के जीवाः कतिभ्यो दिग्भ्य आगतमाहारद्रव्याहारयन्तीति किमाहारद्वारं ।२०। विशिष्टाः संज्ञास्तिस्रः । यया त्रिकालमर्थ जानाति सा दीर्घकालिकी संज्ञा मनस्कानामेव १, यश्च देहपालनाहेतोरिष्टवस्तुषु प्रवर्तते अहिताच्च निवर्तते वर्तमानकालविषयं च चिन्तनं यस्य तस्य हेतुवादोपदेशसंज्ञा द्वीन्द्रियादीनामेव २, यश्च सम्यग्दृष्टिः क्षायोपशमिकज्ञानयुक्तो यथाशक्ति रागादिनिग्रहपरस्तस्य दृष्टिवादोपदेशिकी संज्ञा ३।२१। गतिर्भवान्तरगमनं ॥२२॥
For Private and Personal Use Only