Book Title: Chaturvinshati Prabandh
Author(s): Hiralal R Kapadia
Publisher: Farbas Gujarati Sabha
View full book text
________________
૨૬
૧૦
૧૫
૨૫
श्रीवीरस्तुतिः
स्वात्मनि निलीनः कृतः कषायः - त्रिफलाख्यो येन स तथा तम् । अनेनेदं उक्तं भवति यत् त्रिफलया तस्य शिखिदोषोऽपनीत इति । तथा च
रसग्रन्थ:
“ मलशिखिविषनामानो रसस्य नैसर्गिकास्त्रयो दोषाः ।
गृहकन्या हरति मलं त्रिफलाऽग्निं चित्रकस्तु विषम् ॥ १॥ " इति । थोसामि स्तम्भयिष्यामि | केन कृत्वा ? त्रिसङ्घातेन सितास्रकं तालकं तार एतेषां त्रयाणां सङ्घातेन - योगेनेत्येके । अन्ये तु व्याचक्षते - दुग्धिकादीनां स्वरसं रसमध्ये दद्यात् । ओषधीनां शुष्कवे तु तासां काथं कृत्वा तद्रसं निक्षिपेत् । अत्र च रक्तदुग्धिका सोमवल्लीबहुफलीनामन्यतमयाऽपि कार्य सिद्धयति तथापि तिस्रो ग्राह्या इत्याम्नायः । पुनः कथम्भूतं जिनम् ! पारदं तीर्णसङ्ग मृत सप्तगुणसङ्गोत्तीर्णम् । अस्य सम्प्रदायो गुरुमुखाच्छ्रोतव्यः । एतावता श्वेता ओलिदर्शिता । अधुना पीतविधिमाह - महावीरं म इति हेममाक्षिकं हा इति हाटकं वी इति कृष्णाभ्रकं र इति रसः । तं स्तोष्यामि । शेषा ओषधयः समाना एव । इति प्रथमगाथाऽर्थः ॥ १ ॥
।
सुकुमालधीरसोमा रत्तकसिणपंडुरा सिरिनिकेया । सोयंकुसगह भीरू जलथलनहमंडणा तिनि ॥ २ ॥ सुकुमाल इति नाइणि, धीर इति नाइ, सोमा इति सोमवल्लीत्रयम्, सोमा वा कुची । रत्त इति रक्तदुग्धिका, कसिण इति कृष्णा बहुफली काञ्चनिका, पण्डुरा इति देवदालो । सि इति शृङ्गिकविषम्, रि इति लघुरिङ्गिणी, निकेया इति केतकी तन्निर्यासः । सीया इति लानु - लिका, (अं) कुसगह इति अहिखराबीजानि अपामार्गबीजानि वा. भीरु इति लज्जालुका । जलमण्डनिका मण्डूकब्राह्मी, स्थलमण्ड निका अम्बावनी अम्बचङ्गेरी, नभोमण्डनिका सुनाली आकाशवल्ली चेत्येके । एतास्तिस्र ओषधयः । ओषधीनां बहुत्वेऽपि तिन्नि त्ति अभिधानं मण्डनशब्दयोजनासाम्यात् । इति द्वितोयगाथार्थः ॥ २ ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a376506cb8f72f4de2975c45338d79700b26ddabe31776eff8fd69a1906b35c0.jpg)
Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266