Book Title: Chandonushasanam Author(s): Vinaysagar Publisher: ZZ_Anusandhan View full book textPage 8
________________ अनुसन्धान ४७ प्रथमा॰ प्रतीते सप्तेति संख्या अंशाः गणाः कल्पा इत्यनर्थान्तरम् । किविशिष्टा: ? चातुर्मात्रा उक्तरूपा भवन्ति । तथा गुरुः गुरुसंज्ञमक्षरमन्ते प्रथमार्द्धस्यैव भवतीति ! नो नैव, विषमे - विषमसंख्यास्थाने प्रथमतृतीयादिके। मध्यगुरुरुक्तरूपोंऽशको भवतीति गम्यते । षष्ठः षष्ठस्थानवर्ती अयमेव मध्यगुरुरेव भवन्तीति विषमस्थापने । चतुः-मध्यगुरुकल्परहिताश्चत्वारः कल्पास्समे तद्वितीयचतुर्थलक्षणेन सहिता, एवं पञ्चषष्ठस्तद्विकल्पो चेति गाथार्थः ।।५।। उक्तं प्रथमार्द्धस्वरूपं द्वितीयस्य तद्वक्तुमाहबीयद्धे वेस कमो छटुंसो नवरमेगमत्तो उ। अज्जा वि गाहसरिसा नवरं सा सक्कयनिबद्धा ॥६॥ द्वितीयं च तदर्द्धं च द्वितीयार्द्धं, तत्राऽविकृतगाथाया एवाऽपिशब्द: पूर्वार्द्धक्रमापेक्ष एष पूर्वार्द्धविषयक्रमः परपाटिः । यदुत सप्तांशाः चतुर्मात्रा इत्याद्यनन्तरोक्तविशेषमाह-प्रथमार्द्धात् द्वितीयाङ्के अयं विशेषो यदुत षष्ठोंऽश एकमात्रस्तु एवकारार्थस्ततश्चैकत्र एव । सामान्येन यदेव गाथालक्षणमाया अपि तदेवेति प्रसङ्गत एव लाघवार्थमार्यालक्षणमतिदेष्टमत्तरार्द्धमाह-आर्याऽपि गाथासदृशी, न केवलं गाथा गाथेव दृश्यते किन्त्वार्याऽपि सर्वलक्षणसाधात् । यद्येवंगाथायाः क इवाऽऽर्यायां विशेष इत्याह-नवरं केवलं सा आर्या संस्कृतनिबद्धासंस्कृतेन भाषाविशेषरूपेण निबद्धा रचिता गाथा न तथेत्यनवोविशेषः ।।६।। सामान्येन गाथालक्षणमुक्त्वा शेषविशेषेषु पदपाठविशेषमाह चउलघुछटे बीया सत्तमपढमा उ हवइ पयपदमं । पुव्वद्धे पच्छद्धे पंचमठाण पढमया उ एव ॥७॥ चतुर्लघुश्चासौ षष्ठच तत्र द्वितीयाल्लयोः सप्तमे चतुर्लधावेव प्रथमाल्लघोस्तत आरभ्य इत्यर्थः, भवति-प्रवर्तते पदपठनं--पदस्योक्तरूपस्य पठनं भणनमित्यर्थः । पूर्वार्द्ध पश्चाद्धे प्रतीतरूप एव, पंचमठाणे विभक्तिलोपश्च प्राग्वदविकृतत्वात् । चतुः-चतुर्लधावेव किमित्याह प्रथमकाल्लघो: पदमिति पदपठनं भवतीत्यनुवर्तते । इदमुक्तं भवति-यदा गाथायाः प्रथमार्द्ध षट्चतुर्थलघुरंशको भवति तदा द्वितीयलधोः पदप्रारम्भो, अस्मिन्नेव सप्तमे प्रथमाद्वितीये पुनर॰ यदि पञ्चमश्चतुर्लधुस्तदा प्रथमादेव पदप्रवृत्तिः, शेषेषु चतुर्लघुषु पुनः सम्भवत्स्वपि न पदपाठनीया त Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16