Book Title: Chandonushasanam Author(s): Vinaysagar Publisher: ZZ_Anusandhan View full book textPage 7
________________ मार्च २००९ लध्विति - लघुसंज्ञः चकारः समुच्चये भिन्नक्रमश्च, प्रगुणैकमात्रं च प्रगुणं ऋजुस्थापनायामेकमात्रं च मात्रागणनायां पश्चाद् विशेषणसमासः । किं तदित्याह - शेषमिति दीर्घमबिन्द्वाद्यक्षरादन्य भवतीति, कल्पाश्च पञ्च चतुर्मात्रा इति, कल्प्यन्ते विरच्यन्ते इति कल्पा अंशकाश्चकारः पुनरर्थे, पश्चेति संख्यया । चतस्रो मात्रा येषु ते तथा । तानेव स्वरूपतो व्यक्ति द्र्यन्तमध्यादिगुरवः चतुर्लघुश्च ज्ञातव्या इति, द्वयोरन्ते, मध्ये आदौ च यथासम्भवं गुरुर्गुरुश्च येषां ते, तथा चत्वारो लघवो यत्र स तथा विभक्तिलोपश्च प्राकृतत्वात् । चकारा अनुक्तसमुच्चये ज्ञातव्या बोद्धव्या । इदमुक्तं भवति, एकस्तावद् द्विगुरुरन्यो अन्तगुरुश्चतुर्मात्रत्व-नियमाच्चादौ द्विलघुपरो, मध्यगुरुराद्यन्तयोरेकैकलघुस्तदपर आदिगुरुरन्तद्विलघुश्चेत्येवं चत्वारः कल्पाश्चतुर्लघुश्च पञ्चम एत एव चतुर्मात्रागाथायां प्रयुज्यन्त इति गाथार्थः । स्थापना - द्विगु० ऽ ऽ, अन्त्यगु० । । ऽ, मध्यगु० 1 5 1, आदिगु० ऽ । । चतुर्लघु | | | | ||३|| उक्तमेव गुरुसंज्ञां क्वचिदपवदितुमाह- 1 पश्च-पकारश्च उश्च-उकारो बिन्दुश्च - बिन्दुमान् तस्य केवलस्याऽसम्भवात् पबिन्दवो गुरवोऽपि लघवो भवन्ति । किंविशिष्टा ? दीर्घात्पराः । किं सर्वत्र नेत्याह- कुत्रापि लक्ष्यानुसारेण पदान्ते, विभक्त्यन्तं पदं, तदन्त इत्यर्थः । अयं चाऽर्थ:--पूर्वार्द्धन लक्ष्यरूपतयोक्तस्तदर्थश्चाऽयं भक्त्योचितकृत्यकरणरूपया, केषां जिनानां अर्हतां । किमित्याह - कर्माणि गलन्ति कर्माणि ज्ञानादीनि (ज्ञानावरणीयादीनि) । अबन्धपरिणामतया भक्तिमतामेव जीवप्रदेशेम्य: पृथग् भवन्ति । यदि कथञ्चित् कालसंहननादिबलविकलतया निखिलकर्ममलो न गलति ततः किमित्याह कुगतयो नरक- तिर्यक्- कुमानुषत्व - कुदेवत्वलक्षणा नश्यन्ति । अपुनर्भावेन । सर्वदर्शिनामपि दर्शनपथमवतरन्तीति ||४|| इह गाथाया द्वे अर्द्धे, प्रथमार्द्धमितरश्च, तत् प्रथमार्द्धस्वरूपं वक्तुकाम आह भत्तीए जिणाणं कम्माई गलंति कुगइओ नासंति । पबिंदू दीहपरा लहु य कत्थइ पयंते ॥४॥ - पढमद्धे सत्त चमत्ता होंति तह गुरू अंते । नो विसमे मज्झगुरू छट्टो अयमेव चउ लहुया ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16