Book Title: Chandonushasanam
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan
View full book text
________________
मार्च २००१
गुरुवर्णपरिमाणा भवन्ति । किविशिष्टा ? अक्षररहिता अक्षरैर्वर्ण रहिता, गाथायां यावन्तो वर्णास्तै रहिता, यथोत्कर्षतो गाथायां पञ्चपञ्चाशतिवर्णेषु सप्तपञ्चाशतो मात्रापरिमाणादपनीतेष्ववशिष्टे जघन्यतो वे गुरुणी अक्षरे भवतः । यदा वर्ण एव मात्राः सप्तपञ्चाशत्परिमाणा गुरुहीना गुर्वक्षरप्रमाणहीनाः क्रियन्ते तदा वर्णवन्न परिमाणं न भवन्ति । चकारः समुच्चये । यथा क्वचित् गाथायां सप्तविशंतिगुरवस्तेषु च सप्तपञ्चाशतोऽपनीतेषु शेषाः त्रिंशत्, तावन्तश्च तत्र वर्णा इति । लध्वक्षरैः लघुवर्णैः हीना मात्रा इत्यनुवर्तते । ततश्च लध्वक्षरापनयने यच्छेषमवशिष्टं मात्रापरिमाणं तदर्द्ध प्रतीत एव । किमित्याह-गुरुवर्णा भवन्तीति गम्यते । यथा क्वचिद् गाथायां त्रीणि लघुन्यक्षराणि मात्रापरिमाणात् तदपनयने चतुःपञ्चाशत् तस्या अप्यर्द्ध सप्तविंशतिस्तावन्तश्च गुरुवर्णाः । एवं गीत्युपगीत्योरपि स्वमात्रापरिमाणानुसारेण भावना कार्या इति गाथार्थः ॥१८॥
साम्प्रतं किञ्चित् सामान्यगाथालक्षणविलक्षणत्वेन पृथगेव स्कन्धकगाथायां मात्रापरिमाणं वर्णस्थानपरिमाणं चाऽऽह
चउसी सत्तावण्णा चउतीसाइ जा दुसहिया सही । लहुयद्धादु]तीसजुया वण्ण खंधियए सया विण्णेया ॥१९॥
चतुःषष्टिर्मात्राः स्कन्धके स्कन्धकच्छन्दसि भवन्तीति गम्यते । अष्टानां चतुर्मात्राणां अंशकानां प्रत्येकमर्द्धद्वयेपि तावद् वर्णस्थानानि चतुस्त्रिंशदादीनि पर्यवसानमाह-यावद् द्विसहिता षष्टिपर्यन्तानीत्यर्थः । यतोऽत्रोत्कृष्टतस्त्रिंशत् गुरूणि तेषु चाऽर्द्धद्वयेऽपि षष्ठस्य पृथग् गुरुमध्यतो लघुचतुष्टयसम्भवात् । जघन्यतश्चतुस्त्रिंशत्वर्णा एकमेकैकगुरुवर्णहानौ लघुद्वयवृद्धौ च, यावद् द्वाषष्टौ वर्णेषु द्वौ गुरू षष्ठिश्च लघव इत्येकोनत्रिंशद्बलस्थानानि, चतुस्त्रिंशतो द्वाषष्टिस्थाने, एतत् संख्यापूरणे । लघ्वर्द्धा लध्वर्द्धपरिमाणा द्वात्रिंशद्युता वर्णाः स्कन्धके सदा स्कन्धकलक्षणस्याऽविसम्वादित्वात् अविचलत्वेन सर्वकालं विज्ञेया ज्ञातव्याः । इदमुक्तं भवति-लघुभ्यो वर्णपरिमाणोन्नयने इदं करणं यावन्ति लघून्यक्षराणि तत्र दृश्यन्ते तेषामद्धं द्वात्रिंशयुतं वर्णपरिमाणं । यथोत्कर्षतः षष्टिप्रमाणेषु । लघुष्वर्कीकृतेषु त्रिंशति द्वाविंशति क्षेपे च द्वाषष्टिवर्णा भवन्तीति गाथार्थः ॥१९॥
इदानीमंशकविकल्पवशात् गाथोद्गीतिस्कन्धकगीत्युपगीतिचपलानां प्रत्येक, प्रस्तारप्रमाणं विवक्षुः गाथात्रयमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16