Book Title: Chandonushasanam
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 11
________________ मार्च २००९ द्वितीयार्द्धलक्षणं च षष्ठ एकलघुरित्यादि, तच्च प्रथमा॰ भवति उद्गीतिः अभिधानमिति गाथा भणिता । किविशिष्टा ? विरामांशैर्भवति पूर्वसमा-यथा सामान्यगाथायां षष्ठे चतुर्लघौ द्वितीयात्, सप्तमे प्रथमात्, द्वितीयाद्धे तु पञ्चमे प्रथमात् पदपाठः; यथा च प्रथमतृतीयपञ्चमसप्तमेषु मध्यगुरुवर्जिताः शेषाश्चत्वारो गणस्तथा अत्राऽपीति गाथार्थः ॥१४|| गाहसमा सत्तंसा चमत्ता तह य अट्ठमो अंतगुरु । पढमद्धे तत्तुल्लं बीयंपि य खंधयं तमिह बिंति बुहा ॥१५॥ स्कन्धकं तमिह बुवते बुधाः । यत्र किमित्याह-गाथासमासामान्यगाथा-तुल्याः सप्तेति-सप्तसंख्या अंशगणा:-कल्पा इति अर्थान्तरं । किंरूपाः ? चतुर्मात्रास्तथा चेति यथा सप्तमश्चतुर्मात्राश्चकारोप्यर्थे भिन्नक्रमश्च, तथाऽष्टमे पि चतुर्मात्र एव परमंतगुरुरन्ते गुरुय॑स्य स तथा । क्वेत्याह-प्रथमार्द्ध प्रतीत एव, न केवलं प्रथमार्द्धमेव एवंरूपं, किन्तु द्वितीयमपीत्याह तत्तुल्यं प्रथमार्द्धसमं द्वितीयमप्यर्द्धं स्कन्धकाभिधानं तच्छन्द इह छन्दोविचारणायां ब्रुवन्तिआचक्षते बुधाः-सुधिय इति गाथार्थः ॥१५॥ एवं सामान्यतो विशेषतश्च गाथालक्षणमभिधाय गाथायामेव परिमाणवर्णसंख्याभेदपरिमाणं चाऽऽह सत्तावण्णा मत्ता गाहा तीसइ जाव पणपण्णा । वण्णा एक्गवुवा हवंति छव्वीस ठाणा ॥१६॥ सप्तपञ्चाशन्मात्रा यस्यां सा तथा गाथा भवतीति गम्यते । सप्तपञ्चाशता मात्राभिः सामान्यतो गाथा निगद्यते इत्यर्थः । त्रिंशतो वर्णेभ्यश्चाऽऽरभ्य यावत् पञ्चपञ्चाशत् पञ्चभिरधिका पञ्चाशद् यावत् । किमित्याह-वर्णा अकारादयः । किरूपाः ? एकैकवृद्धा एकोत्तरया वृद्ध्या वृद्धिमुपगता भवन्तिवर्तते । किययख्या(संख्यया) इत्याह-षड्विंशतिस्थानाः-षड्भिरधिका विशंतिः स्थानानि संख्याभेदा येषां ते तथा । इदमुक्तं भवति-यदा द्वयोः सर्वेऽपि गुरवो वर्णाः प्रयुज्यन्ते तदाऽपि प्रथमाः षष्ठस्य मध्यगुरुत्वेन, तल्लघुद्वयसम्भवात् । द्वितीयाद्धे च षष्ठस्य एकलघुमात्रत्वात् त्रयो लघुवर्णा गुरुवश्च सप्तविंशतिवर्णाः, एवं जघन्यतः त्रिंशद्वर्णाः, प्रतिगुरुमात्राद्वयभावेन चतुःपञ्चाशति मात्रासु लघुमात्रात्रयमीलने सप्तपञ्चाशन्मात्रा गाथायां भवन्ति । षड्विंशतौ गुरुषु पञ्चसु Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16