Book Title: Chandonushasanam
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसन्धान ४७
तेरस अंस वियप्पा जहसंभवमिह परोप्परं गुणिया । वीससहस्सा एगूण वीसलक्खद्धकोडीउ ॥२०॥
इह गोथोद्गीत्योः त्रयोदश अंशकाश्चतुर्मात्रास्तत्र गाथायां प्रथमार्द्ध सप्त द्वितीयाः तु षष्टिपर्यायेण चोद्गीतौ तत्र प्रथमतृतीये पञ्चमसप्तमाः प्रथमार्द्ध मध्यगुरुकल्परहिताः प्रत्येकं चतुर्विकल्पा: । द्वितीयाद्धेऽपि एवमेव । इत्येवमेतौ द्वितीय-चतुर्थों चाऽर्द्धद्वयेऽपि प्रत्येकं पञ्च विकल्पा चैवमेते सर्वे चत्वारः षष्ठाङ्कश्च गाथायां प्रथमे अर्द्ध उद्गीतौ च द्वितीये द्वे विकल्पाः, ततो अष्टौ चतुष्काः, चत्वारः पञ्च द्विकं चेति । तत्र चतुष्टाङ्कस्य परस्परगुणने पञ्चषष्टिसहस्राणि पञ्चशतानि षट्त्रिंशच्च, पञ्चकचतुष्कस्य तु षट्शतानि पञ्चविंशत्यधिकानि परस्परगुणने भवन्ति । ततोऽनेन राशिना पूर्वस्मिन्नसौ गुणितो अन्यतरार्द्ध षष्ठांशस्य द्विविकल्पत्वेन पुनरपि द्विगुणित इदं प्रस्तारप्रमाणं भवति । यथा विंशतिसहस्राणि एकोनविंशतिर्लक्षा अष्टो कोटय इति, अत एवाह
पत्थारमाणमेयं गाहुग्गीईण खंधएट्ठगुणं । दुगुणं दुगुणं गीईए अद्धयं होई ॥२१॥
प्रस्तारमानं रचनापरिमाणमेतदनन्तरोक्तमङ्कतोपि ८,१९,२०,००० कयोरित्याह-गाथोद्गीत्योः स्कन्धकेऽष्टगुणं प्रस्तारमानमेतदिति वर्तते । यतोऽत्र द्वितीयाङ्केपि षष्ठोंऽशो द्विविकल्पो दलद्वये अष्टमौ च, एवं च ये द्विकास्ते च परस्परगुणिता अष्टावेतद्गुणश्च पूर्वराशिः स्कन्धकप्रमाणं भवति । तच्चतत् षष्टिसहस्राणि त्रिपञ्चाशल्लक्षाः पञ्चषष्टिकोटय इति । अङ्कतोऽपि ६५,५३,६०,०००। यथोक्तम्
पणसीकोडीउ लक्खा तेवण्ण सद्विसहस्साई।
पत्थारमाणमेयं खंधयगाहाए बिंति मुणी ॥
द्विगुणं गीत्यां सामान्यगाथाप्रस्तारप्रमाणं । द्वितीयाद्धेपि षष्ठांशकस्य द्विविकल्पकत्वात् । तच्चेदं-चत्वारिंशत्सहस्राः अष्टात्रिंशलक्षाः षोडशकोटयो अङ्कतोऽपि १६,३८,४०,००० । एतदेव चोक्तसन्नीत्यामर्द्धकमर्द्धरूपं भवति । अत्र प्रथमार्द्धपि षष्ठांशस्यैव मात्रत्वात् । तच्च षष्टिसहस्राः नवलक्षाः चतस्रः कोटयः इति अङ्कतोऽपि ४,०९,६०,००० । इति गाथाद्वयार्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16