Book Title: Chandonushasanam
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan
View full book text
________________
१२
अनुसन्धान ४७ लघुष्वेकत्रिंशद्वर्णा एवमेकैकस्य हान्या लघुद्वयस्य च वृद्ध्या द्वात्रिंशदादयो यावदर्द्धद्वयान्तिमयोर्द्वयोः गुरुवर्णयोस्त्रिपञ्चाशति च लघुषु पञ्चपञ्चाशत् । गाथायामुत्कृष्टतो वर्णाः षड्विंशतिश्च वर्णस्थानानि सप्तपञ्चाशत्वमात्रा सर्वत्र भवतीति गाथार्थः ॥१६॥
लघुभ्य उक्तवर्णस्थाना वर्णस्थानेभ्यश्च लघुवर्णानामानयनाय करणमाहतियहीणलहूणऽद्धं तीसजुयं होइ वण्णपरिमाणं ।
तीसाहियं ति दुगुणं तिज्जुय लहुयक्खरपमाणं ॥१७॥
त्रिकेण हीनास्ते च ते लघवश्च त्रिकहीना लघवस्तेषामढ़ दलं, किमित्याह-भवति-वर्तते वर्णपरिमाणं वर्णसंख्या । किविशिष्टं ? त्रिंशद्न्यूनं(?युत) त्रिंशता समेतं । किमुक्तं भवति ? सर्वजधन्येनाऽपि गाथायां त्रयो लघवस्तेषु चाऽपनीतेषु अनवशिष्टत्वेन दलाभावस्तत्र च शून्यस्थाने त्रिंशनिक्षिप्यते । एवं त्रिषु लघुषु त एव त्रिंशद्वर्णाश्चत्वारश्च लघवो न सम्भवत्येव, त्रिकहीनेष्ववशिष्टद्वयस्याः एकत्रिंशद्योगे एकत्रिंशद्वर्णा । एवं सप्तसु लघुषु द्वात्रिंशत्, नवसु त्रयस्त्रिंशतौ त्रिंशन्मीलने गाथायामुत्कृष्टतः पञ्चपञ्चाशद्वर्णास्त्रिंशदधिकामङ्कत्रिंशदादिषु वर्णस्थानेष्वेकद्वयादिपञ्चविंशतिपर्यन्तवर्णपरिमाणं, तु विशेषणार्थो भिन्नक्रमश्च योक्ष्यते । किविशिष्टं ? द्विगुणं-द्वियुतं । किं भवतीत्याहलहुयक्खरपमाणं, पुनरिदमुक्तं भवति । लघ्वक्षरपरिमाणं पुनरित्थं-त्रिंशतो वर्णेभ्यो यदधिकमक्षरपरिमाणं, यथैकविंशतिवर्णेष्वेको वर्ण स द्विगुणो द्वौ त्रिभिर्योगे पञ्चलघून्यक्षराणि यविंशतिश्च गुरूणि; एवं यावत् पञ्चपञ्चाशतिवर्णेषु त्रिंशतो अधिकायां पञ्चविंशतौ द्विगुणायां पञ्चाशति त्रिभिर्योगे त्रिपशाशलघूनि द्वे च गुरुणी अक्षरे भवत इति गाथार्थः ॥१७॥
उक्तं लघुवर्णेभ्यः सामान्यतो वर्णपरिमाणं-वर्णेभ्यश्च लघ्वक्षरपरिमाणं । साम्प्रतं मात्राभ्यां गुरुवर्णानां सामान्यवर्णानां पुनरपि भंग्यन्तरेण गुरुवर्णानां च प्रमाणानयनायकरणमाह
मत्ता अक्खररहिया गुरवो चत्ता य हुंति गुरुहीणा ।।
लहुयक्खरेहिं हीणा सेसद्धे होति गुरुवण्णा ॥१८॥ मात्रा: सामान्यतो गाथायां किल सप्तपञ्चाशत् । किमित्याह-गुरवो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16