Book Title: Chando Ratnamala
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir

View full book text
Previous | Next

Page 166
________________ पञ्चविंशत्यक्षरायाभिकृतिजातिं वर्णयते। - "अभिकृतौ भ्म स्भ नी गाः क्रौञ्चपदा ङ ङ जैः" । अथवा-"क्रौञ्चपदा भ्मौ स्भौ नननान्गाविषु शखसुमुनिविरतिरिह भवेत्" । भ. म. स. भ. न. न. न. न. गु. । 51. sss. ।।s. 5।।. |||. |||. .. ||!. . इतिलक्षणपदमेतत् । सरलार्थ:-यत्र प्रतिपादं क्रमशो भगण-मगण-सगणभगणोत्तरं नगणचतुष्टयं गुरुश्चैको भवति, तस्य क्रौञ्चपदा नाम ध्रियते । पञ्चभिः पञ्चभिरष्ट भिश्च यतिरत्र जायते । अर्थात्-इह अभिकृति जातौ चेद् यदि भगण-मगणो-सगणभगणौ चत्वारो नगणा एको गुरुश्च इषुभिः शरैः पञ्चभिः वसुभिरष्टभिमुनिभिः सप्तभिश्च विरतिः स्यात् तदा क्रौञ्चपदा नाम छन्दो भवेत् इति । उदाहरणम्प्रोजम्म्यपुरारित्वद्भययोगान् नृपवर भवदरिरतिशयविधुरो, दूरमरण्यं प्राप्य कलत्रैः सह समजनि गतिरयवशतृषितः । सारसनादात् सस्वयमादौ प्रसरति कियदपिभुवनमथ सहसा, प्रेक्ष्य चकार क्रौञ्चपदाङ्कां ध्रुवमिहमरिदिति निगदतिदयिता।। छन्दोरत्नमाला-१४३

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174