Book Title: Chando Ratnamala
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandir

View full book text
Previous | Next

Page 169
________________ यदि इह दण्डकजातौ आदौ नगणयुग्मं ततः सप्तरेफाः सप्त रगणास्तदा चण्डवृष्टिप्रपातो नाम दण्डको भवेत् ॥ १ ॥ ___"प्रतिचरणविवृद्धरेफाः स्युरार्णव-व्यालजीमूतलीलाकरोद्दामशंखादयः" ॥२॥ ___ अत्र प्रतिपादविवृद्धरेफा इति । प्रत्येकदण्डकं प्रतिपादे एकैकरगणवृद्धिः क्रियते तदा अमूनि नामानि दण्डकानां पृथक् स्युः । ___ अत्र तु द्वौ नगणौ ततः प्रत्येक पादे (चरणे) अष्टौ रगणास्तदा अर्ण नाम दण्डकं स्यात् । एवं प्रतिदण्डकवृद्धौ नवभिः 'अर्गव' नाम दण्डकं स्यात् । दशभी रगणैः 'व्याल' नाम दण्डकं स्यात् । एकादशभी रगणैः 'जीमूत' नाम दण्डकं स्यात् । द्वादशभी रगणैः 'लीलाकर' नाम दण्डकं स्यात् । त्रयोदशभी रगणैः 'उद्दाम' नाम दण्डकं स्यात् । तथा प्रत्येकचरणे अर्थात् पादे-पादे आदौ द्वौ नगणौ ततः चतुर्दशरगणाः तदा शङ्को नाम दण्डको भवतीति । 'शङ्खादयः' इत्यत्र आदिशब्दात् ययगगनसमुद्रादयोऽपि शिष्टकृतनामानो गृह्यन्ते रगणवृद्धिरपि कर्तव्येति । तथा नगणद्वयादुत्तरैरग्रेतनैः सप्तभिर्यगणैः छन्दोरत्तमाला-१४६

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174