Book Title: Bhavishyadutta Charitram Author(s): Meghvijay Gani, Mafatlal Zaverchand Gandhi Publisher: Mafatlal Zaverchand Gandhi View full book textPage 3
________________ प्रस्तावना मविष्यदत्तचरित्रम XXX प्रस्ताविकम् सुस्पष्टमेवेदं सरलं सुन्दरं भविण्यदत्तचरित्रं श्रीमन्महोपाध्यायमेघविजयगणिवराणामेव कृतिः, ग्रन्थकारेणैव प्रत्यधिकारान्ते स्वनाम, निर्देशः कृतः, तथा च एतच्चरित्रकारप्रणीतनिम्नलिखितपद्यद्वयेन गुर्वादिनिर्देशोऽपि सुप्रतीत एव. तपागणाम्भोजसहस्रभानुः, सूरिर्जयी श्री विजयप्रभाह्नः / तत्पट्टदीपः श्रमणावनीपः प्रभासते श्रीविजयादिरत्नः // 76 // राज्ये तदीये विजयिन्यजत्रं, प्राज्ञाः कृपादेविजया बभूवुः / शिष्यो हि मेघाद्विजयस्तदीयोऽन्वभूदुपाध्यायपदप्रतिष्ठाम् // 77 // अनेन सुस्पष्टमेव विजयप्रभसूरिवरागां पट्टे रत्नसूरिवरराज्ये कृपाविजयशिष्यमेघविजयोपाध्याय एवाऽस्य प्रन्थस्य निर्माता. एतेषां विस्तरतो गुरुपरम्परा शिष्यपरम्परा च तत्कृत-शान्तिनाथचरित्र-लघुत्रिषष्ठिचरित्रादिप्रशस्तिभ्यो एव निर्णेतु शस्या. तथा च शान्तिनाथचरित्रे, तदनु गणधरालीपूर्वदिग्भानुमाली विजयपदमपूर्व हीरपूर्व दधानः // 66 // कनकविजयशर्माऽस्यान्तिषत् प्रौढधर्मा, शुचितरवरशीलः शीलनामा तदीय: कमलविजयधीरः, सिद्धिसंसिद्धितीरस्तदनुज इह रेजे वाचकश्रीशरीरः // 67 // चारित्रशब्दाद् विजयाभिधान-त्रयी सगर्भा धृतशीलधर्माः / एषां विनेयाः कवयः कृपायाः पद्यास्वरूपाः समयाऽम्बुराशौ // 68 // तत्पादाम्बुजभृङ्गमेघविजयः प्राप्तस्फुरद्वाचक-ख्यातिः श्रीविजयप्रभाख्यभगवत्सूरेस्तपागच्छपात् / नुन्नोऽयं निजमेरुपूर्वविजयप्राज्ञादिशिष्यैरिमाम् / चक्रे निर्मलनैषधीयवचनैः श्रीशान्तिचक्रिस्तुतिम् // 69 //Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 170