Book Title: Bhav Bhavna Prakaranam Part 02
Author(s): Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 506
________________ ज्ञानिनो, येन विनयेन कृतेनान्योऽपि ज्ञानादिगुणगणः समस्तोऽपि भूष्यत इति । अथ समस्तस्यापि al पूर्वोक्तग्रन्थस्य फलमुपदर्शयन्नाह| एवं कए य पुव्वुत्तझाणजलणेण कम्मवणगहणं । दहिऊण जंति सिद्धिं अजरं अमरं अणंतसुहं ।५२४॥ एवं च ज्ञानिभिस्तनुस्वजनविभवपुत्रकलत्रादिषु ममत्वस्नेहादिवर्जने कृते रोगादिवेदनाऽधिसहने वाऽनुष्ठिते गुर्वादिषु च विनयेनाऽऽराधितेषु पूर्वोक्तं द्वादशभावनात्मकं यद् विशुद्धं धर्मध्यानं तदेव ज्वलनस्तेन समग्रमपि कर्मवनगहनं दग्ध्वा ते ज्ञानिनः सिद्धिं यान्ति, कथम्भूतां ?-जरामरणवर्जितामनन्तसौख्यां चेति गाथार्थः ॥ ___ अथ प्रस्तुतप्रकरणकर्ता स्वकीयनामोपदर्शनपूर्वकमेतत्प्रकरणपठनश्रवणादिफलमभिधित्सुराहहेमंतमयणचंदणदणुसूररिणाइवन्ननामेहिं । सिरिअभयसूरिसीसेहिं रइयं भवभावणं एयं ॥५२५॥ जो पढइ सुत्तओ सुणइ अत्थओ भावए य अणुसमयं । सो भवनिव्वेयगओ पडिवजइ परमपयमग्गं । न य वाहिजइ हरिसेहिं नेय विसमावईविसाएहिं । भावियचित्तो एयाए चिट्ठए अमयसित्तो ब्व ॥५२७|| ॥ ४७५॥

Loading...

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516