Book Title: Bhav Bhavna Prakaranam Part 02
Author(s): Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 508
________________ वररत्नमालिकेव वररत्नमालिका एषा भवभावना मया निर्मिता, कैरित्याह-गाथा एव विचित्ररत्नानि गाथाविचित्ररत्नानि तैः, कियत्संख्यरित्याह-एकत्रिंशदधिकपंचशतैरिति गाथार्थः । | इह यद्यपि यद्भवितव्यं तदेव भवति तथाऽपि शुभाशयफलत्वाच्छोभनार्थेषु आशंसा विधेयेति दर्शनार्थमाशंसां कुर्वन्नाहभुवणम्मि जाव वियरइ जिणधम्मो ताव भव्वजीवाणं । भवभावणवररयणावलीइ कीरउ अलंकारो॥ यावदत्र भुवने श्रीमजिनधर्मः क्वापि विचरति तावदनया भवभावनावररत्नावल्या भव्यजीवानामलंकारः क्रियतां, सर्वेषामेव भव्यजन्तूनां पठनादिना एतदुपकार:संपद्यतामिति भाव इति गाथार्थः ॥ प्रायोऽन्यशास्त्रदृष्टः सर्वोऽप्यर्थो मयाऽत्र संरचितः। न पुनः स्वमनीषिकया तथापि यत् किंचिदिह वितथम् । सूत्रमतिलङ्घ्य लिखितं तच्छोध्यं मय्यनुगृहं कृत्वा । परकीयदोषगुणयोस्त्यागोपादानविधिकुशलैः ॥ छद्मस्थस्य हि बुद्धिः स्खलति न कस्येह कर्मवशगस्य ? | सवुद्धिविरहितानां विशेषतो मद्विधासुमताम् कृत्वा यच्छास्त्रमिदं पुण्यं समुपार्जितं मया तेन | मुक्तिमचिरेण लभतां क्षपितरजाः सर्वभव्यजनः ।। ॥ इति श्रीहेमचंद्रसूरिविरचिता भवभावनावृत्तिः समाप्तेति ॥ ।। ४७७॥

Loading...

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516