Book Title: Bharateshwar Bahubali Vrutti Part_1 Author(s): Shubhshil Gani Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 9
________________ Jain Education गुरवो जगुः - " महानुभाग ! महान् सार्थो विद्यते, श्राद्धाश्च बहवः सन्ति, तेषां शकटेषु प्रासुकमन्नपानादि सर्वं विलोक्य|मानं सदा लभ्यतेऽङ्गीक्रियते च । भवतः सार्थ एव वयमागताः तत्पुण्यं तव महज्जायमानमस्ति " । सार्थेशोऽवग्“ यत्स्वहस्तेन दीयते तदेव लभ्यते शरीरिभिः । स्वहस्तेनान्नपानादि, दीयते यद्विवेकिभिः । लभ्यते तज्जनैः संख्यातीतपुण्यं न संशयः ॥ १॥ मृतानामपि जन्तूनां श्राद्धं चेत्तृप्तिकारणम् । तन्निर्वाणप्रदीपस्य, स्नेहः किं वर्द्धते शिखाम् ॥२॥ | धनसार्थवाहः प्राह -- साधुयुग्मं प्रेष्यतां तत्र किमप्यहं प्रासुकान्नादि दास्ये । ततो गुरुभिस्तस्य शुद्धभावं | मत्वा साधुयुग्मं धनस्योत्तारके प्रेषितम् | अन्नं दातुं यावत् सार्थपो विलोकतेस्म, तावदमत्रेषु किमपि न दृश्यते, पूर्वव्ययकरणात् । ततः स्त्यानीभूतं घृतं भाजनस्थं दातुं शुद्धभावात् सार्थप उत्थितो यावत्तावत् सार्थेशस्य शुद्धभावं मत्वा, प्रासुकं घृतं च वीक्ष्य साधुनाऽग्रेतनेन विहृतम्, तदा तेन सार्थेशेन घृतं ददता मनुष्यभवायुः, पुण्यानुबन्धिपुण्यमर्जितं, बोधिबी - जं च । तथा च जिनागमः - "केसिंचि होइ वित्तं, पत्तं अन्नेसु उभयमन्नेसु । चित्तं वित्तं पत्तं, तिन्निवि केसिचि धन्नाणं" ॥ १ ॥ सिद्धांतेऽप्युक्तं -- तहारुवाणं समणाणं माहणाणं भंते! फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं | पडिला भेमाणेणं किं किज्जइ ? गोयमा ! तत्थ अट्ठकम्मपयडीओ धणीयबंधणबद्धाओ सिढिलबंधणबद्धाओ पगरइ, For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 376