Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati

View full book text
Previous | Next

Page 12
________________ आशीर्वचनम् भरतबाहुबलिमहाकाव्यमत्यन्तमस्ति दुर्लभम् । अस्माकं संघे जयाचार्यसमयादेतत् प्राप्तमस्ति । मघवगणिनः प्रवचनसमयेऽस्य वाचनमकुर्वन । तदानीं तेषां गभीरया गिरा वातावरणं प्रकम्पितमिवाऽजायत। जयाचार्यसमये हस्तलिखितादर्शानामन्वेषणं भृशं जातम् । क्वाऽपि काव्यस्यास्य प्रतिहस्तगता नाभूत् । केनापि मुनिना सङ्घाद् बहिर्गच्छता नीता तत्प्रतिः । तस्याः पत्रद्वयं मघवगणिनः पुस्तके स्थितमासीत् । तदाधारेण अन्वेषणं कृतम् । कालूगणिनः समये तस्याः साम्प्रतमुपलब्धानि पत्राणि लब्धानि । मयाऽपि तस्य काव्यस्य गवेषणा कृता। छोगमलजीचोपडाभिधेन तेरापंथिमहासभामंत्रिणा अन्विष्टमिदं प्रतिलिपिश्च कारिता। तां दृष्ट्वा मम मनसि महान् तोषो जातः । प्रतिलिपिकरणाय मम तत्परताऽभूत् । प्रयत्नपूर्वकं तां पूरयित्वा प्रतिलिपिः कृता मुनिनथमलेन । मन्त्रिमुनेरपि महान् रस आसीत् अस्मिन् काव्ये । पाठ्यक्रमप्येतत् नियोजितम् । अस्मिन् निर्वाणशताब्दीसमये जनविश्वभारतीसंस्थानप्रकाशनाधिकारिणा श्रीचंद्रेण प्रकाशनार्थं याचितमिदं काव्यम् । आगमप्रकाशनेन सार्द्ध अस्यापि प्रकाशनं कृतम्। : . हिन्दी अनुवादस्य अपेक्षा मुनिदुलहराजेन पूरिता । अनुवादोऽपि सम्यक् कृतः । अस्य सम्पादने मुनिनथमलस्य योगः, अनुवादे मुनिदुलहराजस्य योगः। मुनिदुलहराजः अध्यवसायपरायणो विद्यते । स कार्य तत्कालं निष्पन्नं कुरुते । श्रीचन्द्रस्य तृतीयो योगः । प्रकाशनमपि आकर्षकमस्ति । एतत् काव्यं जनताहस्ते समागतमिति मम मनसि महान् हर्षः, विदुषां समक्ष प्रस्तुतमस्तीति हृष्याम्यतितराम् । अस्मिन् पुण्ये भगवतो महावीरस्य पञ्चविंशतितमे निर्वाणशताब्दीसमयेऽस्य प्रस्तुतीकरणं सर्वथा महत्वमञ्चति । २५०० वीरनिर्वाणदिवसे, इन्द्रप्रस्थे। आचार्य तुलसी

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 550