________________
आशीर्वचनम्
भरतबाहुबलिमहाकाव्यमत्यन्तमस्ति दुर्लभम् । अस्माकं संघे जयाचार्यसमयादेतत् प्राप्तमस्ति । मघवगणिनः प्रवचनसमयेऽस्य वाचनमकुर्वन । तदानीं तेषां गभीरया गिरा वातावरणं प्रकम्पितमिवाऽजायत। जयाचार्यसमये हस्तलिखितादर्शानामन्वेषणं भृशं जातम् । क्वाऽपि काव्यस्यास्य प्रतिहस्तगता नाभूत् । केनापि मुनिना सङ्घाद् बहिर्गच्छता नीता तत्प्रतिः । तस्याः पत्रद्वयं मघवगणिनः पुस्तके स्थितमासीत् । तदाधारेण अन्वेषणं कृतम् । कालूगणिनः समये तस्याः साम्प्रतमुपलब्धानि पत्राणि लब्धानि । मयाऽपि तस्य काव्यस्य गवेषणा कृता। छोगमलजीचोपडाभिधेन तेरापंथिमहासभामंत्रिणा अन्विष्टमिदं प्रतिलिपिश्च कारिता। तां दृष्ट्वा मम मनसि महान् तोषो जातः । प्रतिलिपिकरणाय मम तत्परताऽभूत् । प्रयत्नपूर्वकं तां पूरयित्वा प्रतिलिपिः कृता मुनिनथमलेन । मन्त्रिमुनेरपि महान् रस आसीत् अस्मिन् काव्ये । पाठ्यक्रमप्येतत् नियोजितम् । अस्मिन् निर्वाणशताब्दीसमये जनविश्वभारतीसंस्थानप्रकाशनाधिकारिणा श्रीचंद्रेण प्रकाशनार्थं याचितमिदं काव्यम् । आगमप्रकाशनेन सार्द्ध अस्यापि प्रकाशनं कृतम्। : . हिन्दी अनुवादस्य अपेक्षा मुनिदुलहराजेन पूरिता । अनुवादोऽपि सम्यक् कृतः । अस्य सम्पादने मुनिनथमलस्य योगः, अनुवादे मुनिदुलहराजस्य योगः। मुनिदुलहराजः अध्यवसायपरायणो विद्यते । स कार्य तत्कालं निष्पन्नं कुरुते । श्रीचन्द्रस्य तृतीयो योगः । प्रकाशनमपि आकर्षकमस्ति । एतत् काव्यं जनताहस्ते समागतमिति मम मनसि महान् हर्षः, विदुषां समक्ष प्रस्तुतमस्तीति हृष्याम्यतितराम् । अस्मिन् पुण्ये भगवतो महावीरस्य पञ्चविंशतितमे निर्वाणशताब्दीसमयेऽस्य प्रस्तुतीकरणं सर्वथा महत्वमञ्चति । २५०० वीरनिर्वाणदिवसे, इन्द्रप्रस्थे।
आचार्य तुलसी