Book Title: Bhaktamara Sutra
Author(s): Mantungsuri, Yugchandravijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 15
________________ ॥ श्री भक्तामरस्तोत्रम् ।। स्मिन्नित्यम्भोनिधिस्तस्मिन् 'तत्पुरुषः', सांयात्रिका जना भवतः स्मरणात् त्रासम्-आकस्मिकं भयं विहाय - त्यक्त्वा व्रजन्ति-क्रमेण स्वस्थानं यान्ति। जनाः किंलक्षणाः? 'रङ्गत्तरङ्गशिखरस्थितयानपात्राः' उच्छलत्कल्लोलाग्रवर्तिवाहनाः। रङ्गन्तश्च ते तरङ्गाश्च रङ्गत्तरङ्गाः ‘कर्मधारयः', रङ्गत्तरगाणां शिखराणि रङ्गत्तरङ्गशिखराणि 'तत्पुरुषः', रङ्गत्तरङ्गशिखरेषु स्थितानि रङ्गत्तरङ्गशिखरस्थितानि 'तत्पुरुषः', रङ्गत्तरङ्गशिखरस्थितानि यानपात्राणि येषां ते रङ्गत्तरङ्गशिखरस्थितयानपात्राः 'बहुव्रीहिः'। अम्भोनिधौ कथंभूते? 'क्षुभितभीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नौ' क्षुभिताः - क्षोभं गताः भीषणानि-रौद्राणि नक्रचक्राणि- दुष्टजलजन्तुवृन्दानि पाठीनपीठौ-मत्स्यभेदौ च भयदो-भयोत्पादक उल्बणः-प्रकटो वाडवाग्निः-वडवानलश्च यत्र स तस्मिन्। नक्राणां चक्राणि नक्रचक्राणि 'तत्पुरुषः', भीषणानि च तानि नक्रचक्राणि च भीषणनक्रचक्राणि ‘कर्मधारयः', पाठीनाश्च पीठाश्च पाठीनपीठाः 'द्वन्द्वः', वाडवश्चासावग्निश्च वाडवाग्निः ‘कर्मधारयः', उल्बणश्चासौ वाडवाग्निश्च उल्बणवाडवाग्निः 'कर्मधारयः', भयं ददातीति भयदः 'तत्पुरुषः', भयदश्चासावुल्बणवाडवाग्निश्च भयदोल्बणवाडवाग्निः ‘कर्मधारयः', भीषणनक्रचक्राणि च पाठीनपीठाश्च भयदोल्बणवाडवाग्निश्च भीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नयः 'द्वन्द्वः', क्षुभिता भीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नयो यत्र स क्षुभितभीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्निस्तस्मिन् ‘कर्मधारयः'। इति चत्वारिंशत्तमवृत्तार्थः ।।४०॥ अथ रोगभयं भिन्दन्नाह-उद्भूतेत्यादि ___ व्याख्या - हे कर्मव्याधिविध्वंसनधन्वन्तरे ! मा-नरा उद्भूतभीषणजलोदरभारभुग्नाः-उत्पन्नरौद्रोदरवृद्धिभारवक्राः, भग्ना इति पाठे तु का १०१ न

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 203