Book Title: Bhajanpad Sangraha Part 09
Author(s): Buddhisagar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 458
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya s ૩૮૫ ॥ अथ सत्तानयनिश्चयगर्भितनयगर्भित गुरुगीता ॥ विश्ववन्द्य क्रमाम्भोज, यस्य तं सद्गुरुं नुमः । त्रातारं सर्वधर्मस्य, पूर्णानन्दं महेश्वरम् ॥ १ ॥ सन्त्यज्य सर्वशङ्कादीन , सद्गुरुं शरणं शुभम् । सेवस्व पूर्णसत्प्रीत्या, नान्यत्किश्चिद् गुरुं विना ॥२॥ साकारं च निराकारं, मायातीतं महोदयम् । जगन्नेत्रं गुणाधारं, चिदानन्दं स्वयंभुवम् ॥ ३ ॥ वर्णातीतं कलातीतं, धर्माधारं सदा ध्रुवम् । सदेहं सत्यमात्मानं, सद्गुरुं नौमि भावतः ॥ ४ ॥ एकदेशि भवेच्छास्त्र, सर्वदेशी गुरुः स्मृतः । तस्मात् सर्वप्रयत्नेन, सेव्यः श्रीसद्गुरुः सदा ॥ ५ ॥ सद्गुरोः सेवनात् सर्वे, देवेन्द्रा वरदायिनः । अनेकजन्मजं कर्म, नश्यति नात्र संशयः ॥ ६॥ गुरोराज्ञा मुदा सेव्या, सर्वस्वार्पणभक्तितः। आज्ञापालनतो मुक्तिरन्यथा भ्रमणं भवे ॥७॥ सद्गुरोः कृपया धर्मों, नृणां सजायते ध्रुवम् । गुरोः कृपां विना शिष्या, धर्मयोग्याः कदापि नो॥८॥ गुरोकृपा सदा याच्या, सद्गुरोराशिषः सुखम् । हृदि स्याचेद् गुरोमूर्तिर्यमो रुष्टः करोति किम् ? ॥९॥ द्वन्द्वातीतं चिदात्मानं, कर्मातीतं निरञ्जनम् । धर्मोद्धारकयोगीन्द्रं, गम्यागम्यस्वरूपकम् ॥१०॥ समाधिरूपतीयेश, विश्वेशं च विरागिणम् । सक्रिय निष्क्रिय पूर्ण, विश्वाधारं गुरुं स्तुमः ॥ ११ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486