________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya s
૩૮૫
॥ अथ सत्तानयनिश्चयगर्भितनयगर्भित गुरुगीता ॥
विश्ववन्द्य क्रमाम्भोज, यस्य तं सद्गुरुं नुमः । त्रातारं सर्वधर्मस्य, पूर्णानन्दं महेश्वरम् ॥ १ ॥ सन्त्यज्य सर्वशङ्कादीन , सद्गुरुं शरणं शुभम् । सेवस्व पूर्णसत्प्रीत्या, नान्यत्किश्चिद् गुरुं विना ॥२॥ साकारं च निराकारं, मायातीतं महोदयम् । जगन्नेत्रं गुणाधारं, चिदानन्दं स्वयंभुवम् ॥ ३ ॥ वर्णातीतं कलातीतं, धर्माधारं सदा ध्रुवम् । सदेहं सत्यमात्मानं, सद्गुरुं नौमि भावतः ॥ ४ ॥ एकदेशि भवेच्छास्त्र, सर्वदेशी गुरुः स्मृतः । तस्मात् सर्वप्रयत्नेन, सेव्यः श्रीसद्गुरुः सदा ॥ ५ ॥ सद्गुरोः सेवनात् सर्वे, देवेन्द्रा वरदायिनः । अनेकजन्मजं कर्म, नश्यति नात्र संशयः ॥ ६॥ गुरोराज्ञा मुदा सेव्या, सर्वस्वार्पणभक्तितः। आज्ञापालनतो मुक्तिरन्यथा भ्रमणं भवे ॥७॥ सद्गुरोः कृपया धर्मों, नृणां सजायते ध्रुवम् । गुरोः कृपां विना शिष्या, धर्मयोग्याः कदापि नो॥८॥ गुरोकृपा सदा याच्या, सद्गुरोराशिषः सुखम् । हृदि स्याचेद् गुरोमूर्तिर्यमो रुष्टः करोति किम् ? ॥९॥ द्वन्द्वातीतं चिदात्मानं, कर्मातीतं निरञ्जनम् । धर्मोद्धारकयोगीन्द्रं, गम्यागम्यस्वरूपकम् ॥१०॥ समाधिरूपतीयेश, विश्वेशं च विरागिणम् । सक्रिय निष्क्रिय पूर्ण, विश्वाधारं गुरुं स्तुमः ॥ ११ ॥
For Private And Personal Use Only