________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८६ अनेकमेकरूपं च, सर्वपर्यायभाजनम् । दर्शनज्ञानचारित्रं, यतीन्द्रं सद्गुरुं स्तुमः । १२ ॥ ॐकारं सत्यहींकार, श्रींकारं सद्गुरुं भज। सर्वे दोषाःक्षयं यान्ति, मुक्तिः स्यात् स्वात्मनो ध्रुवम् १३ सर्वदा साक्षिरूपं च, निर्मलं नित्यमद्वयम् । सर्वव्यापकचैतन्यं, नामातीतं गुरुं स्तुमः ॥ १४ ॥ व्यक्ताव्यक्तगुणाधार, वाच्यावाच्यस्वरूपकम् । ज्ञानगम्यं महाशक्त, सर्वतीर्थशिरोमणिम् ॥ १५ ॥ अनक्षराक्षरं शुद्धं, निर्लेपं व्योमवत् सदा । दृश्याऽदृश्यं जडातोतं, ब्रह्मरूपं सनातनम् ! १६ ॥ कल्पनातीतचित्कोश-मव्ययं निर्विकल्पकम् । सर्वपापहरं शश्वत्, सद्गुरु नौमि भावतः ॥ १७ ॥ ॐ ह्री श्री धर्मदेष्टारं, विश्ववन्यं महेश्वरम् । सर्वतीर्थस्वरूपं च, कालातीतं विभासुरम् ॥ १८ ॥ ॐ ह्रीं ब्लू धर्मदेष्टार, धर्मोद्धारकसद्गुरुम् । सर्वज्ञं विश्वरक्षायै, धृतकाय नमाम्यहम् ॥ १९ ॥ ॐ ही श्री धर्मतीर्थशं, दैवीसंपद्धरं गुरुम् । शरण्यं सर्वजीवानां, नौम्यहं भक्तिभावतः ॥ २० ॥ ॐ ह्री श्री धर्मदातारं, चिदानन्द जगद्गुरुम् । सर्व समर्प्य सद्भक्त्या, वन्देऽहं भक्तिभावतः॥२१॥ जन्मातीतं जरातीतं, कायातीतं गतव्यथम् । वाचातीतं मनःपारं, वन्देऽहं भक्तिभावतः ॥ २२ ॥ सर्वशक्तिप्रदातारं, सर्वदोषापहारकम् ॥ ॐ सद्गुरुमहादेवं, वन्देऽहं भक्तिभावतः ।। २३ ।।
For Private And Personal Use Only