________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वशक्तिप्रदं तूर्ण, धर्मविद्याप्रकाशकम् । समं विश्वं सदा यस्य, वन्देऽहं भक्तिभावतः ॥ २४ ॥ सर्वधर्मस्वरूपं च पूर्णज्योतिधरं सदा । तन्मयेनैव भावेन, वन्देऽहं भक्तिभावतः ॥ २५ ।। ॐ हो झौ मंत्ररूपाय, निर्विकारपरात्मने । रत्नत्रयीस्वरूपाय, नमः श्रीगुरवे सदा ॥२६॥ लक्ष्यालक्ष्यस्वरूपाय, सत्यधर्मार्थधारिणे । अनाद्यनन्तरूपाय, नमः श्रीगुरवे सदा ॥२७॥ शुद्धानन्तप्रकाशाय, धर्माधाराय भूतले । सर्वज्योतिःस्वरूपाय, नमः श्रीगुरवे सदा ॥ २८ ।। सद्गुरोः स्तवनात् पाप, नैव तिष्ठति मानसे । गुरोरवज्ञया पापी, नानोति स्वर्गसम्पदः ॥ २९ ॥ श्रोतव्या न गुरोनिन्दा, प्राणैः कण्ठगतैरपि । अद्रष्टव्यमुखा मयां, सद्गुरोद्रोहकारकाः ॥३०॥ सद्गुरोमहिमाऽपारः, केनापि नैव पार्यते । अतः श्रद्धाबलेनैव, सेवनीयो गुरुः सदा ॥ ३१ ।। सद्गति व कस्याऽपि, भवेत्सद्गुरुमन्तरा । सद्गुरोः शापतः स्थैर्य, कस्यापि नैव जायते ॥३२॥ सङ्गः कदापि नो कार्यों, गुरोविश्वासघातिनाम् । विश्वासो नैव कर्तव्यः, कदाचित् सद्गुरुद्रुहाम् ॥३३॥ आज्ञाभङ्गो न कर्तव्यः, प्राणनाशेऽपि सद्गुरोः । सद्गुरो ममन्त्रस्य, जापः कार्यः क्षक्षणे ॥३४ ।। सद्गुरोः सेवका नैव, दुर्गतिमाप्नुवन्ति हि । श्वासोच्छ्वासे भवेद् धर्म स्तस्यान्तो नैव पार्यते॥३५॥
For Private And Personal Use Only