________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८८
ऐ रे सद्गुरवे नित्य, नमः स्याद्वाद्धर्मिणे । गुरोर्नाम स्मरन्भक्तो, ब्रह्मभूयाय कल्पते ॥ ३६ ॥ आराधिते गुरौ सर्वे, देवा आराधिताः सदा । विराधिते गुरौ सर्वे, देवा नित्यं विराधिताः ॥ ३७॥ सर्वतीर्थाधिराजस्य, सद्गुरोः सेवनं शुभम् । सेविते सद्गुरौ सर्वतीर्थानि सेवितानि वै ॥३८॥ अभेदः सर्वदा मान्यः, सद्गुरोश्च परात्मनः । गुरोर्गुणानुरागेण, सेवा कार्या सदा मुदा ।। ३९ ॥ गुरुर्गुरुः सदा जापः, कर्तव्यो मनसि सदा । नैव वाच्यो गुरोमन्त्रो, नास्तिकाग्रे कदाचन ॥४०॥ गुरोः कृपां विना कोऽपि, नैव सिद्धो न सेत्स्यति । अतो विशुद्धरागेण, याचनीया गुरोः कृपा ॥ ४१ ।। गुरोः कृपाप्रभावेण, दुष्टबुद्धिविलीयते । पदे पदे च माङ्गल्यमीप्सितं भवति ध्रुवम् ॥ ४२ ॥ सर्वकार्याणि सिद्वयन्ति, सद्गुरोराशिषो द्रुतम् । पूर्णश्रद्धां समालम्ब्य, सेवनीयो गुरुः सदा ॥४३॥ पिता माता तथा भ्राता, गुरुरेव न संशयः। . सत्यमित्रं गुरुः साक्षाद्, भीतानामभयप्रदः ॥४४॥ शरण्यः सर्वजोवानां, जन्ममृत्युविनाशकः । नान्यो गुरु विना कश्चिद्, धर्मदाता महीतले ।। ४५।। कार्या कदापि नो शङ्का, गुरोर्वाचि क्रियासु च । रहस्यमेतच्छद्धाया, भाषितं सत्ययोगिभिः ॥ ४६॥ अर्हमह गुरुः सेव्यो, मनोवाकायकर्मभिः। श्रद्धैव फलदा सत्या, यत्र तत्र स्वभावतः ॥४७॥
For Private And Personal Use Only