________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
૩૮૯
"
3
सर्वदेव गुरुः सेव्यः, पूर्णनिष्कामभक्तितः । विनेयानां ध्रुवं सिद्धि, भोषिता सत्ययोगिना ॥ ४८ ॥ तत्त्वमस्यादिभावेन, पूर्णब्रह्मस्वभावतः । कर्मयोगप्रवृत्त्या च सेव्यो ध्येयः सदा गुरुः ॥ ४९ ॥ अन्तर्मुक्तो बहिः सर्व, कर्त्तव्यं कुरुते सुधीः । सर्वकर्मसु निर्लेपः, सर्वत्र सद्गुरुं स्मरन् ॥ ५० ॥ ब्रह्मरूपो गुरुयैयः सर्वलोके चिदात्मकः । सद्गुरुब्रह्मयोगेन ब्रह्मरूपः स्वयं भवेत् ॥ ५१ ॥ स्वात्मनश्च गुरोरैक्यं, भाव्यं सर्वत्र सर्वदा । सर्वथा सर्वकर्माणि कर्त्तव्यानि विवेकतः ॥ ५२ ॥ पापात्किञ्चिन्न भेतव्यं, शरण्ये सद्गुरौ मति । सद्गुरुं शरणीकृत्य, कर्मयोगी सदा भव ।। ५३ ।। महाप्रभुगुरोर्भक्तो भवेद् योगी न संशयः । कर्म कुर्वन्सदा मुक्तः, सिद्धो बुद्धः सनातनः ॥ ५४ ॥ अन्तत्यागी बहिर्योगी, गुरूपं चराचरम् । पश्यन्कर्माणि कुर्वन्सन्, मुक्तो योगीश्वरः सदा ॥ ५५ ॥ महागुरुर्निजात्मैव, ब्रह्मैव सद्गुरुर्महान् । मत्वैवं योगदृष्टात्मा, बद्धो भवति नैव सः ॥ ५६ ॥ गुरुर्ब्रह्म गुरुर्ब्रह्म, निधाय हृदये जनः । लययोगं समादाय, व्यक्तितः पूर्णतां नयेत् ॥ ५७॥ सर्वयोगा गुरोः पादे, तिष्ठन्ति नात्र संशयः । गुरुकृपाभवा योगा, रहस्यं योगिनां मतम् ॥ ५८ ॥ कोपितव्यो गुरुर्नैव, तिरस्कारादिकर्मभिः । महाकालो गुरुः क्रुद्धः सर्वारिष्टप्रदो यमः ॥ ५९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only