________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
30
दुरुल्लयो गुरोः शापो, नानादुःखादिकारकः । तरन्ति ते भवाम्भोधि, गुरोराशीरता जनाः॥६० ॥ कर्मातीतं गुरोरूपं, ध्यायन्ति ये जना मुदा । आप्नुवन्ति परब्रह्म, धूतरागादिकल्मषाः ॥ ६१ ।। प्रवृत्तिमार्गमारूढा, गुर्वाज्ञातत्परा जनाः । भवन्ति ज्ञानयोगेन, स्युश्च नित्तियोगिनः ॥१२॥ सद्गुरोः पादमूलं हि, तीर्थ सत्यं महीतले । धर्ममूला गुरोर्वाणी, मोक्षमूलं गुरोर्मनः ।। ६३ ॥ कृपामूला भवेत्सिद्धिः, सत्यं तत्र न संशयः । गुरोः सेवां विना सारः, कश्चिन्नैव महोतले ।। ६४॥ अगभ्यं सद्गुरोवृत्त-मगम्यं सद्गुरोर्मनः । सद्गुरोराशयाः सर्वे, गम्यन्ते नैव कैरपि ॥६५॥ अतः श्रद्धां समालम्ब्य, कर्तव्यं कर्म सत्सदा । मुक्तो भवति भक्तात्मा, गुर्वाज्ञाकर्मतत्परः ॥६६॥ निरीक्ष्या न गुरोर्दोषा, मिथ्यावासितबुद्धितः । दोषाः कदाचिनोवाच्याः,प्राणान्तेऽपि च सद्गुरोः॥६७॥ गुरुः स्पर्शमणि यो, गुरुश्चिन्तामणिः सदा । कामकुम्भो गुरु यः, कल्पवृक्षः सतां मतः ॥ ६८ ॥ गुर्वाज्ञामन्तरा मिथ्या, यमादीनां प्रवृत्तयः । गुर्वाज्ञापालने सिद्धि व्रतादीनन्तरा ध्रुवा । ६९ ॥ माहात्म्यं सद्गुरोभूरि, प्रत्यक्ष देववद् महद् । नैव प्रत्युपकारः स्यात्, कोटाकोट्युपकारतः ॥७॥ सर्वोपायैः सदा सेव्या, गुर्वाज्ञा पूर्णभावतः । सन्त्यज्य भोतिखेदादीन् , कृत्वा सर्वसमर्पणम्॥७॥
For Private And Personal Use Only