________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3१
दास्यसख्यादिभावेन, सेव्यो ध्येयः सदा गुरुः । आत्मोल्लासेन भक्तस्य, भवन्ति सर्वसिद्धयः । ७२।। सद्गुरोर्दर्शनं पुण्यं, तीर्थसारो गुरु मंतः। तीर्थ फलति कालेन, सद्यः सेवा तु सद्गुरोः॥७३॥ ब्रह्मविष्णुमहेशाद्या, ददते यन्न भूतले । तद्ददाति गुरुः पूज्यो, वाचा प्रसनमानसः ॥ ७४॥ गुरुप्रसादमूलाय, लोके सर्वविभूतयः । अतोगुरुप्रसादाथै, कार्य सर्वमुपायतः ॥ ७५ ॥ पूर्णाऽसङ्ख्यप्रदेशात्मा, चिच्छक्त्या व्यापकः सदा। पूर्णानन्दस्वरूपेण, सद्गुरुर्वपुषि स्थितः ॥ ७६ ॥ दाहेनादाह्यरूपो य, आत्मा सद्गुरुधर्मराट् । ज्योतिषामपि यज्ज्योतिर्यद्भासा भासते जगत्।।७७॥ इन्द्रियैर्यः परः ख्यातः, सर्वेषां हृदि संस्थितः। जीवकः सर्वसत्त्वानां, ज्ञानगम्यो निरन्तरम् ।७८॥ योगाङ्गैः स्वोन्नतिकता, छेत्ता कर्माष्टभूभृतः । ज्ञायकः सर्वलोकस्य, ब्रह्मात्मा गुरुरुच्यते ॥७९॥ आत्मा स्वयं गुरुर्बोध्य, उपादानस्वभावतः। दर्शनज्ञानचारित्रदानादिसद्गुणैर्महान् ॥ ८० ॥ आत्मैक्यं सत्तया बोध्यं, भिन्नाभिन्नमपेक्षया। अनेकान्तं समाश्रित्य, सद्भिः सेव्यो गुरुः सदा॥८१॥ मा भ्रम कुत्रचिजीव !, स्वीकुरु सद्गुरूं परम् । गुर्वाश्रयप्रभावेण, मुक्तो नूनं भविष्यसि ॥ ८२॥ प्रियात्प्रियो भवेद् भक्तो, गुरोश्चित्तानुसारतः । प्राप्नोति सद्गुरोर्हार्दान्, संभूय सद्गुरोर्मनः ॥ ८३ ॥
For Private And Personal Use Only