________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૩૯૨
गुर्वात्मनः सदा सात्म्यं, योक्ता शिष्यो भवेद् गुरु'। रहस्यमेतज्जानन्ति, केचित्पुण्यानुसारतः ॥ ८४ ॥ बहिरन्तः परं ब्रह्म, सद्गुरूपासकस्य तत् । अन्तःशून्यं बहिः शून्यं, नास्तिकस्याविवेकतः।।८५॥ श्रीसद्गुरोमहासेवा, पूर्णपुण्येन लभ्यते । लब्ध्वा श्रीसद्गुरुं देवं, सेवा कार्या प्रतिक्षणम् ॥८६॥ सर्वधर्मसमावेश, आज्ञायां पूज्यसद्गुरोः । सर्वधर्मान् परित्यज्य, सद्गुरोः शरणं व्रज ॥ ८७ ॥ सर्वशक्तिः समादेया, सद्गुरुज्ञानयुक्तितः। सर्वशक्त्या गुरुः प्राप्यो, निर्बल नैंव लभ्यते ॥ ८८ ॥ ज्ञानवीर्यतपोहीना, लभन्ते नैव सद्गुरुम् । मूढनास्तिकजीवैस्तु, दृश्यते नैव सद्गुरुः ॥ ८९॥ गुर्वाज्ञापालका जीवाः, प्राप्नुवन्ति परं सुखम् । मायाम्भोधिसमुत्तीर्णाः, सिडा बुद्धा भवन्ति ते ॥१०॥ ये ये ह्यारोपिता भावाः, स्वकीया नैव ते कदा । आत्मज्ञानेन निश्त्यि, सेवनीयो महागुरुः ॥ ९१ ॥ त्यक्त्वा नामादिकां वृत्ति, निधाय हृदि सद्गुरुम् । प्राप्तकालानुसारेण, विकास्याः सर्वशक्तयः ॥ ९२ ॥ सर्वावस्थासु सानन्दं, मत्वा कृत्वा स्वयोग्यताम् । पूर्णब्रह्म समासेव्यं, गुरुब्रह्मैव नापरः ॥९३ ॥ नैष्ठिकब्रह्मचर्येण, प्राप्यते ब्रह्मसद्गुरुः । स्वयं ब्रह्मगुरुभूत्वा, परज्योतिर्मयो भवेत् ॥ ९४ ॥
For Private And Personal Use Only