________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
33
S
गुरुस्वरूपम् . निर्विकल्पस्वभावेन, साक्षादात्मा स्वयं गुरुः । सविकल्पस्वभावे तु, गुरुरन्यो विधीयते ॥ ९५ ॥ गुर्वाज्ञापारतन्त्र्येण, तत्वज्ञानस्य लाभतः । चिदानन्दघनावाति, भांषिता सत्ययोगिभिः ॥९६॥ सद्गुरुभक्तियोगेन, परात्मा हृदि दृश्यते । पूर्णश्रद्धा सदा धार्या, सेयं धर्मस्य जीविका ॥ ९७॥ गुरुश्चक्षुगुरूं: शीर्ष, गुरुश्चित्तं गुरुर्धनम् । गुरुरात्मा गुरुः सर्व, प्रियं यत्तत्स्वकं गुरुः ॥ ९८ ।। गुरुनिं गुरुः प्राणा, गुरुर्ययो गुरुमहान् । गुरुर्वाचि गुरुश्चित्ते, दृश्याऽदृश्यं स्वयं गुरुः ॥ ९९ ।। गुरुः शुद्धो गुरुर्बुद्धो, गुरुः कृष्णो महायतिः । सर्वचिन्त्यो गुरुः पूज्यः, सर्वज्ञेयो महागुरुः ॥ १०० ॥ सापेक्षदृष्टितः सर्व, विश्वं हि लीयते गुरौ । अस्तिनास्तित्वधर्मैश्च, नयैः सर्वमयो गुरुः ।। १०१ ॥ सद्गुरुर्ज्ञायते सम्यगरूपी निश्चयेन तु। बोद्धव्यो व्यवहारेण, नामरूपात्मसद्गुरुः ॥ १०२ ॥ निश्चयेन सदा सत्यो, व्यवहृत्योपचारवान् । इत्यनेकान्तत स्वस्माद्, भिन्नाभिन्नो जगद्गुरुः ॥१०३।। नयैर्भङ्गुरुज्ञेयः, षड्धाकारकचक्रवान् । वङ्कनालसुषुम्णायां, स्थितिं कृत्वा समाधितः॥१०४॥ शुद्धोपयोगतः स्वस्मिन् , पूर्णात्पूर्णः प्रकाशते। व्यष्टिसमष्टिमान्स्वामी, स्वात्मासंजायते गुरुः॥१०० बहिरन्तः स्वयं साक्षाद्, गुरुश्चैतन्यधारकः । इन्द्रियप्राणयुक्तो यः, स्वान्यवस्तुप्रकाशकः।। १०६ ॥
For Private And Personal Use Only