Book Title: Bhadrabahuswami Charitra
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 8
________________ भद्रबाहु ॥ ७ ॥ मनागपि संतापो न भविष्यति तत् श्रुत्वा गुरुभिरुक्तं राजन् ! इतः सप्तमे दिवसे निशीथेऽस्य भवदीय| पुलस्यावश्यं विडालिकामुखान्मरणं भविष्यति, तच्छोकविसर्जनार्थं च भवतां पार्श्वे नूनं ममागमनं भवि ष्यति तत् श्रुत्वाऽतीव विस्मितो राजा पुनरपि गुरुनपृच्छत्, भगवन् ! भवद्भिरेतत् कथं ज्ञातं ? गुरुभिरुक्तं सर्वज्ञोक्तलग्नबलादिज्योतिर्ज्ञानेनैव मया ज्ञातमस्ति अथैवं विस्मितो राजा निजावासे समेत्य नगरमध्यात्सर्वा अपि विडालिका बहिर्निष्कासयामास अंतःपुरमध्ये च विशेषतोऽसौ विडालिकागमननिषेधार्थं भूरिदासदासीनियोजयामास अथ सप्तमे दिवसे निशीथे धात्री तस्य बालस्य स्तन्यपानार्थं द्वारशाखाग्रे समुपविष्टा. इतोऽकस्माद् द्वारार्गला तस्य बालस्य मस्तकोपरि निपतिता, मर्मघातेन च वालो द्रुतमेव तत्र मृतः एवं नृपबालं मृतं विलोक्य नगरलोकास्तं वराहमिहिरं निंदयामासुः, श्रीभद्रबाहुस्वामिनं च प्रशंसयामासुः राज्ञापि तस्य वराहमिहिरस्य धिक्कारः कृतः अथ तस्मिन्नवसरे श्राद्धशतसंयुताः श्रीभद्रवाहुस्वामिनो नृपाये शोकापनोदाय समायाताः तैश्च राज्ञे संसारासारताया उपदेशो दत्तः ततो राज्ञा गुरुभ्यः पृष्टं, भगवन् ! युष्माभिरस्य वालस्य सप्तदिनायुः कथं ज्ञातं ? विडालिकामुखाच्च बालस्य मरणं तु नाभृत्, चरित्रम् ॥ ७ ॥ Scanned by CamScanner

Loading...

Page Navigation
1 ... 6 7 8 9 10 11