Book Title: Bhadrabahuswami Charitra Author(s): Shubhshil Gani Publisher: Shravak Hiralal Hansraj View full book textPage 6
________________ Scanned by CamScanner S F1SHAR भद्रबाहु दर्शयामास. एवं कृतकृत्योऽहं सूर्यमापृच्छय विश्वोपकारकरणाश्रमेव पुनरत्र भृमो समागतोऽस्मि, तदर्थमेव । चरित्रम् च भृमो सर्वत्र विचरामि. एवं तदुक्तं सत्यं मन्यमानाः सर्वेऽपि नगरजनास्तं भृशं सत्कारयामासुः. एवं नगरमध्ये तस्य भृरिप्रशंसां श्रुत्वा तत्पुराधीशः श्रीजितशत्रुराजा तं निजपुरोहितं कृतवान्. तस्याजीविकाथै । च ग्रासं समयामास. एवमधिगताधिकसन्मानोऽसो भृशं गर्वाधिरूढो सविशेष जैनधर्मनिंदा करोतिस्म. एवं तत्र प्रतिष्टानपुरे निवसंतो जेनास्तेन वाराहेण क्रियमाणां निजधर्मनिंदां श्रुत्वोद्विग्नास्तवृत्तांतं गुरुभ्यो , ज्ञापयित्वा तानाकारयामासुः. एवं तन्नगरसंघेनाकारिताः श्रीभद्रवाहस्वामिनस्तत्र समायाताः, संघेन च महताडंवरेण तेषां प्रवेशमहोत्सवो विहितः, उपाश्रये च स्थापिताः. तेषां व्याख्यानं श्रोतुमनेके महेभ्या राजकुमाराश्चागच्छंतिम्म. अथैवं श्रीभद्रबाहुस्वामिनमागतं श्रुत्वा स वराहपुरोहितोऽतीवाभिमानं प्राप्तो विशेपेण जिनधर्मनिंदां करोतिस्म. इतो नृपतिगृहे पुत्रो जातः, तदातीवहृष्टेन राज्ञा वराहमिहिर आकारितः, बहु सन्मानपूर्वकं भूरिद्रव्यदानेन तस्य पावें तस्य पुत्रस्य च जन्मपत्रिका कारिता. वराहमिहिरेणोक्तं राजन्! अयं भवदीयपुत्रः शतवायुष्को महाभाग्यवांश्च भविष्यति. तत् श्रुत्वा नृपतिर्याचकादिभ्यो भूरि E HEALWARENEURSERYPage Navigation
1 ... 4 5 6 7 8 9 10 11