Book Title: Bhadrabahuswami Charitra Author(s): Shubhshil Gani Publisher: Shravak Hiralal Hansraj View full book textPage 7
________________ Scanned by CamScanner भद्रबाहु ॥ ६॥ PEACHEREGAON- है दानपूर्वकं सर्वान् सन्तोषयामास. सर्वेऽपि नगरलोकाः पुत्रजन्मोत्सवनिमित्तं वर्धापनार्थ नृपाग्रे समायांति, अन्यदर्शनाचार्यादयोऽपि राज्ञोऽग्रे वर्धापनार्थ समायाताः, परं श्रीभद्रबाहुस्वामिनोऽनागतान् विज्ञाय द्वेषपरेण वराहमिहिरेण राज्ञोऽग्रे प्रोक्तं, हे स्वामिन् ! सर्वेऽपि लोकाः पुत्रवर्धापनार्थं भवतामग्रे समायाताः, परमेको जैनाचार्यों भद्रबाहु गतः, तेन स भवतां शत्रुरिव द्वेषी संभाव्यते, अतस्तस्य देशनिष्कासनरूपो । | दंडो दातुं युज्यते. तत् श्रुत्वा राजा निजमंत्रिणं समादिशत्, त्वं तस्य जैनाचार्यस्य भद्रबाहोर गत्वा पृच्छ ? यद्यूयं पुत्रवर्धापनार्थ राज्ञोऽग्रे कथं न समायाताः? एवं नृपेणादिष्टो मंत्री गुरोरग्रे समेत्य नृपोक्तं निवेदयामास. तदा गुरुभिरुक्तंभो मंत्रिन्! अयं पुत्रजन्मोत्सवरूपो राज्ञो हर्षः सप्तदिनावधिरेवास्ति, एवं स्तोककलावधिभाविनं हर्षे विज्ञाय वयं नागताः स्मः. अथैवं गुरूक्तं वृत्तांतं मंत्री राज्ञोऽग्रे निवेदयामास. तत् श्रुत्वा विस्मितो राजा स्वयं श्रीभद्रबाहुस्वामिपावें समागत्य विनयतोऽपृच्छत्, भगवन् ! भवद्भिरेष मदीयपुत्रजन्महर्षः स्तोककालावधिरेव कथमुक्तः? गुरुभिरुक्तं राजन् ! यदि प्रकटं सत्यं कथयिष्यते, तदा । तव हृदयेऽसमाधिभविष्यति. राज्ञा प्रोक्तं भगवन् ! भवद्भिर्यत्सत्यं ज्ञायते तत्सुखेन कथयध्वं ? मम हृदये PRORRECASIASTI-RRIER ॐगरPage Navigation
1 ... 5 6 7 8 9 10 11