Book Title: Bhadrabahuswami Charitra
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/034061/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Scanned by CamScanner AG mmminmmmmmmmnommmmmmmmmm . . ॥श्री जिनाय नमः ॥ . + ՀապալասյայսլսաասօԱսսսսսայաստան 0000 ERINCOmeी जिनाय नमः ORMWAREE ॥ श्रीभद्रबाहुस्वामीचरित्रम् ॥ (कर्ता-श्रीशुभशीलगणी) छापी प्रसिद्ध करनार-पण्डित श्रावक हीरालाल हंसराज. वीरसंवत् ................२४६५. विक्रमसंवत् ................१९९५. सने............... श्रीजैनभास्करोदय पिन्टिंग प्रेसमा छाप्यु-जामनगर. annnnnnnna + GORAKHPUR + किं. रु. ०-८-० -DOWY . www . S AUG C... u nnannnunnnnnnnnnnnnnnnnnnnnn Parb AuuuuuuuuuuuuuuuuuuuuuunuTRUMARIPEDIUUUUUN Page #2 -------------------------------------------------------------------------- ________________ Scanned by CamScanner भद्रबाहु SEASECS50- ॥ श्रीजिनाय नमः॥ चरित्रम् ॥ अथ श्रीभद्रबाहुस्वामीचरित्रं प्रारभ्यते ॥ कुर्वाणो मानवो नित्यं । जिनेन्द्रशासनोन्नतिं ॥ भद्रबाहुगणाधीश । इवाप्नोति शुभश्रियम् ॥ १ ॥ 3 तथाहि-इहैव भारते क्षेत्रे दक्षिणदिशि प्रतिष्ठानपुराभिधं नगरं वर्तते, तस्मिन्नगरे भद्रबाहुवराहाभिधो द्वौ ४ निर्धनौ सहोदरौ द्विजौ वसतः स्म. अथैकदा श्रीयशोभद्राभिधाः सूरयो महीतले विहरंतस्तत्र नगरे समा-18 जग्मुः. अनेके भव्यजनास्तेषां सूरिवराणां धर्म श्रोतुं समायाताः, तदा तौ द्वौ भ्रातरावपि तैर्जनेः सार्धं , धर्म श्रोतुं तत्रायाती, सूरिभिरपि जनानां पुरो धर्मोपदेशो दत्तः, यथा-संसारंभि असारे । नत्थि सुहं है। वाहिवेअणापउरे ॥ जाणतो इह जीवो । न कुणइ जिणदेसियं धम्मं ॥ १ ॥ यत्पूर्वार्जितकर्मशैलकुलिशं यत्कामदावानल-ज्वालाजालजलं यदुग्रकरणाग्रामाहिमंत्राक्षरं ॥ यत्प्रत्यूहतमःसमूहदिवसं यल्लब्धिलक्ष्मीलता-मूलं तद्विविधं यथाविधि तपः कुर्वीत वीतस्पृहः ॥ २ ॥ इत्यादि धर्मदेशनां निशम्य तौ द्वावपि ॥१॥ AAAAAEASICCORE - Page #3 -------------------------------------------------------------------------- ________________ Scanned by CamScanner भद्रबाहु GSA चरित्रम् - ॥२॥ ₹ भ्रातरौ निजगृहे समायातो. सर्वदा दारिद्र्यपराभृतो तो विचारयामासतुः, यथा-रे दारिद्य नमस्तुभ्यं । टू सिद्धोऽहं त्वत्प्रसादतः ॥ येन पश्याम्यहं सर्व । न मां पश्यति कश्चन ॥ १॥ यस्यास्ति वित्तं स नरः कु लीनः । स पंडितः स श्रुतिमान् गुणज्ञः॥ स एव वक्ता स च दर्शनीयः । सर्वे गुणाः कांचनमाश्रयन्ते A॥२॥ गुणज्ञोऽपि कृतज्ञोऽपि । कुलीनोऽपि महानपि ॥ प्रियंवदोऽपि दक्षोऽपि । निर्धनो नैव शस्यते ॥३॥ आवयोः पावे किंचिदपि द्रव्यं नास्ति, कथंचिद्भिक्षयैव प्राप्तेन लक्षान्नेन स्वाजीविकां कुर्वहे, अत आवयोः । संसारभोगेच्छा तु दुर्लभेव. अतः संयमग्रहणेनैव जन्म साफल्यं कर्तुं योग्यं. एवं दःखगर्भितवैराग्यमापन्नौ द्र तौ श्रीयशोभद्रसरिणां पावे समेत्य दीक्षां जग्रहतुः, क्रमेण श्रुताभ्यासं कुर्वन् श्रीभद्र महाश्रुतज्ञो बभूव. षट्त्रिंशत्सूरिगुणगणालंकृतेन तेन दशवैकालिक उत्तराध्ययन दशाश्रुतस्कंध कल्प व्यवहार आवश्यक सूर्यप्रज्ञप्ति सूत्रकृतांग आचारांग ऋषिभाषिताख्यसूत्राणां नियुक्तयो निर्मिताः. भद्रवाह| वीनाम्नी ज्योतिःशास्त्रशिरोमणिः संहिता च विहिता. तस्मिन्नेवावासरे श्रीयशोभद्रसूरीणां दशपूर्वधराः श्री आर्यसंमृतिविजयाख्या अपि शिष्यप्रवरा विचरंतिस्म, इतः श्रीयशोभद्रसूरयो निजज्ञानवलेन निजायुरंत OSEDASRECAEROCA -२-ॐाख R Page #4 -------------------------------------------------------------------------- ________________ Scanned by CamScanner भद्रबाहु ॥ ३ ॥ ASASARGERऊरवार निकटस्थं विलोक्य तयोःश्रीयशोभद्रसूरिभद्रबाहुवामिनोर्गच्छभारं समर्प्य स्वयं कृतानशना धर्मध्यानपराः चरित्रम् है स्वर्ग जग्मुः. ततो मिथः परमस्नेहिलौ तौ श्रीभद्रबाहसंभृतिविजयी भव्यजनान् प्रतिबोधयन्तो भुवि विह रतः स्म. वराहश्च विद्वानभृत्, परं केवलं गर्वपर्वताधिरूढः सर्वानपि मुनीन् तृणवद्गणयामास. तेन गुरुभिस्तस्मै सूरिपदं न दत्तं, यतः-चारित्रेण विहीनः । श्रुतवानपि नोपजीव्यते सद्भिः॥ शीतलजलपूरिपूर्णः। कुलजेश्चांडालकूप इव ॥ १॥ ज्ञानं सतां मानमदादिनाशनं । केषांचिदेतन्मदमानकारणं ॥ स्थानं विविक्तं यतिनां विमुक्तये। कामातुराणामतिकामकारणं ॥२॥ ततोऽन्येद्युस्तेनं निजसहोदराद्भद्रबाहुस्वामिनःपार्थात् / | सरिपदं याचितं, तदा भद्रबाहस्वामिना प्रोक्तं, भो वत्स! त्वं विद्वानसि, क्रियावानसि, तत्वज्ञोऽसि परमगर्वाभिभूतोऽस, तेनैव च हेतुना गुरुभिरपि तुभ्यं सूरिपदं नार्पितं, अथाधुनाहं ते सूरिपदं कथं यच्छामि ? अतस्त्वं गर्व परित्यज? एवं भद्रबाहुस्वामिभिः प्रोक्तं वचनं तस्य न रुचितं, यतः कस्यापि कुशिष्यस्य गुरुभिरुक्तममृतोपमं वयं वचनमपि विषतया परिणमति. यतः-न दुर्जनः सज्जनतामुपैति । सुमिष्टवाक्यैरपि बोध्यमानः ॥ सिक्तः सुभक्त्या पयसा गुडेन । न निववृक्षो मधुरत्वमेति ॥१॥ अभव्यस्य हि सुकुमालमपि । SIDHAKHARA Page #5 -------------------------------------------------------------------------- ________________ Scanned by CamScanner भद्रबाहु चरित्रम ॥४॥ BACAACADRI गुरुवचनं कर्णशूलायते. एवं गुरूक्तं हितवचनमप्यवगणयता तेन वराहेण दीक्षा परित्यक्ता, मिथ्यात्वं गतश्च स पुनरपि द्विजवेषं जग्राह. वाराहिसंहिताख्यं नवीनं ज्योतिःशास्त्रं च तेन रचितं. ज्योतिःशास्त्रे च प्रवीणत्वाल्लोकानां निमित्तानि दर्शयन् स निजख्यातं प्रथयामास. लोकानां पुरश्च वदति, मया वाल्यत एव ज्योतिःशास्त्राभ्यासः कृतोऽस्ति, मयैकदा प्रतिष्टानपुराबहिर्वनमध्ये शिलोपरि लग्नं मंडितं, ततश्च प्रमादेन तल्लग्नममृष्ट्वैवाहं नगरमध्ये निजगृहे समायातः, रात्रौ सुप्तेन च मया स्मृतं, यत्तत्र शिलोपर्यालेखितं लग्नं मया न प्रमार्जितं, तेन च लग्नस्वामी सूर्यो मह्यं कोपं प्रयास्यति. इति विचार्य साहसं धृत्वा रानावेवोत्थाय तल्लग्नं प्रमाष्टुं वनेऽहं गतः, यावत्तत्र स्थानेऽहं प्राप्तस्तावन्मया तस्यां शिलायां सुप्तः सिंहो दृष्टः. तथापि निर्भयीभृय लग्नभक्त्या तस्य सिंहस्याधस्तात् स्वकर क्षिप्त्वा यावत्तल्लग्नमपसारयामि, तावत्तल्लग्नस्वामी सूर्यः प्रत्यक्षीभूय मामवदत, वत्स! दृढया तव लग्नभक्त्या साहसेन चाहं तवोपरि तुष्टोऽस्मि, अतस्त्वं वांछितं | वरं मार्गयस्व? तत् श्रुत्वा मया प्रोक्तं, भो सूर्यदेव! यदि त्वं ममोपरि संतुष्टोऽसि, तर्हि त्वं मां निजविमाने नीत्वा सर्व ज्योतिश्चकं दर्शय? तत् श्रुत्वा सूर्यो मां स्वविमाने नीत्वा स्थापयामास, ग्रहादीनां चारं च GERCISRRCCIAL Page #6 -------------------------------------------------------------------------- ________________ Scanned by CamScanner S F1SHAR भद्रबाहु दर्शयामास. एवं कृतकृत्योऽहं सूर्यमापृच्छय विश्वोपकारकरणाश्रमेव पुनरत्र भृमो समागतोऽस्मि, तदर्थमेव । चरित्रम् च भृमो सर्वत्र विचरामि. एवं तदुक्तं सत्यं मन्यमानाः सर्वेऽपि नगरजनास्तं भृशं सत्कारयामासुः. एवं नगरमध्ये तस्य भृरिप्रशंसां श्रुत्वा तत्पुराधीशः श्रीजितशत्रुराजा तं निजपुरोहितं कृतवान्. तस्याजीविकाथै । च ग्रासं समयामास. एवमधिगताधिकसन्मानोऽसो भृशं गर्वाधिरूढो सविशेष जैनधर्मनिंदा करोतिस्म. एवं तत्र प्रतिष्टानपुरे निवसंतो जेनास्तेन वाराहेण क्रियमाणां निजधर्मनिंदां श्रुत्वोद्विग्नास्तवृत्तांतं गुरुभ्यो , ज्ञापयित्वा तानाकारयामासुः. एवं तन्नगरसंघेनाकारिताः श्रीभद्रवाहस्वामिनस्तत्र समायाताः, संघेन च महताडंवरेण तेषां प्रवेशमहोत्सवो विहितः, उपाश्रये च स्थापिताः. तेषां व्याख्यानं श्रोतुमनेके महेभ्या राजकुमाराश्चागच्छंतिम्म. अथैवं श्रीभद्रबाहुस्वामिनमागतं श्रुत्वा स वराहपुरोहितोऽतीवाभिमानं प्राप्तो विशेपेण जिनधर्मनिंदां करोतिस्म. इतो नृपतिगृहे पुत्रो जातः, तदातीवहृष्टेन राज्ञा वराहमिहिर आकारितः, बहु सन्मानपूर्वकं भूरिद्रव्यदानेन तस्य पावें तस्य पुत्रस्य च जन्मपत्रिका कारिता. वराहमिहिरेणोक्तं राजन्! अयं भवदीयपुत्रः शतवायुष्को महाभाग्यवांश्च भविष्यति. तत् श्रुत्वा नृपतिर्याचकादिभ्यो भूरि E HEALWARENEURSERY Page #7 -------------------------------------------------------------------------- ________________ Scanned by CamScanner भद्रबाहु ॥ ६॥ PEACHEREGAON- है दानपूर्वकं सर्वान् सन्तोषयामास. सर्वेऽपि नगरलोकाः पुत्रजन्मोत्सवनिमित्तं वर्धापनार्थ नृपाग्रे समायांति, अन्यदर्शनाचार्यादयोऽपि राज्ञोऽग्रे वर्धापनार्थ समायाताः, परं श्रीभद्रबाहुस्वामिनोऽनागतान् विज्ञाय द्वेषपरेण वराहमिहिरेण राज्ञोऽग्रे प्रोक्तं, हे स्वामिन् ! सर्वेऽपि लोकाः पुत्रवर्धापनार्थं भवतामग्रे समायाताः, परमेको जैनाचार्यों भद्रबाहु गतः, तेन स भवतां शत्रुरिव द्वेषी संभाव्यते, अतस्तस्य देशनिष्कासनरूपो । | दंडो दातुं युज्यते. तत् श्रुत्वा राजा निजमंत्रिणं समादिशत्, त्वं तस्य जैनाचार्यस्य भद्रबाहोर गत्वा पृच्छ ? यद्यूयं पुत्रवर्धापनार्थ राज्ञोऽग्रे कथं न समायाताः? एवं नृपेणादिष्टो मंत्री गुरोरग्रे समेत्य नृपोक्तं निवेदयामास. तदा गुरुभिरुक्तंभो मंत्रिन्! अयं पुत्रजन्मोत्सवरूपो राज्ञो हर्षः सप्तदिनावधिरेवास्ति, एवं स्तोककलावधिभाविनं हर्षे विज्ञाय वयं नागताः स्मः. अथैवं गुरूक्तं वृत्तांतं मंत्री राज्ञोऽग्रे निवेदयामास. तत् श्रुत्वा विस्मितो राजा स्वयं श्रीभद्रबाहुस्वामिपावें समागत्य विनयतोऽपृच्छत्, भगवन् ! भवद्भिरेष मदीयपुत्रजन्महर्षः स्तोककालावधिरेव कथमुक्तः? गुरुभिरुक्तं राजन् ! यदि प्रकटं सत्यं कथयिष्यते, तदा । तव हृदयेऽसमाधिभविष्यति. राज्ञा प्रोक्तं भगवन् ! भवद्भिर्यत्सत्यं ज्ञायते तत्सुखेन कथयध्वं ? मम हृदये PRORRECASIASTI-RRIER ॐगर Page #8 -------------------------------------------------------------------------- ________________ भद्रबाहु ॥ ७ ॥ मनागपि संतापो न भविष्यति तत् श्रुत्वा गुरुभिरुक्तं राजन् ! इतः सप्तमे दिवसे निशीथेऽस्य भवदीय| पुलस्यावश्यं विडालिकामुखान्मरणं भविष्यति, तच्छोकविसर्जनार्थं च भवतां पार्श्वे नूनं ममागमनं भवि ष्यति तत् श्रुत्वाऽतीव विस्मितो राजा पुनरपि गुरुनपृच्छत्, भगवन् ! भवद्भिरेतत् कथं ज्ञातं ? गुरुभिरुक्तं सर्वज्ञोक्तलग्नबलादिज्योतिर्ज्ञानेनैव मया ज्ञातमस्ति अथैवं विस्मितो राजा निजावासे समेत्य नगरमध्यात्सर्वा अपि विडालिका बहिर्निष्कासयामास अंतःपुरमध्ये च विशेषतोऽसौ विडालिकागमननिषेधार्थं भूरिदासदासीनियोजयामास अथ सप्तमे दिवसे निशीथे धात्री तस्य बालस्य स्तन्यपानार्थं द्वारशाखाग्रे समुपविष्टा. इतोऽकस्माद् द्वारार्गला तस्य बालस्य मस्तकोपरि निपतिता, मर्मघातेन च वालो द्रुतमेव तत्र मृतः एवं नृपबालं मृतं विलोक्य नगरलोकास्तं वराहमिहिरं निंदयामासुः, श्रीभद्रबाहुस्वामिनं च प्रशंसयामासुः राज्ञापि तस्य वराहमिहिरस्य धिक्कारः कृतः अथ तस्मिन्नवसरे श्राद्धशतसंयुताः श्रीभद्रवाहुस्वामिनो नृपाये शोकापनोदाय समायाताः तैश्च राज्ञे संसारासारताया उपदेशो दत्तः ततो राज्ञा गुरुभ्यः पृष्टं, भगवन् ! युष्माभिरस्य वालस्य सप्तदिनायुः कथं ज्ञातं ? विडालिकामुखाच्च बालस्य मरणं तु नाभृत्, चरित्रम् ॥ ७ ॥ Scanned by CamScanner Page #9 -------------------------------------------------------------------------- ________________ Scanned by CamScanner 5%ESAX भद्रबाहु चरित्रम् ॥ ८॥ | तत्र किं कारणं? गुरुभिरुक्तं, राजन् ! तस्या अगेलाया मुखे बिडालिकायाः स्वरूपं विद्यते. किंच यदा पुत्रप्रसूतिर्जाता, तदैवास्माभिः सूक्ष्मबुद्ध्या तद्वेला विलोकिता, तदा ज्ञानेनैव तस्य बालस्य सप्तदिनायुरस्माभिर्जातं. अथातीवखेदं प्रयातो वराहो यावत्तत्पुस्तकानि जले क्षेप्तुं लग्नः, तावद्भद्रबाहुस्वामिना निवा| रितः, कथितं च तस्मै, भो वराह! सर्वज्ञप्रणीतेषु शास्त्रेषु तु सर्वमपि सत्यमेव प्रोक्तमस्ति, परं केवलं गुर्वाम्नाय । एव दुर्लभोऽस्ति, यतः-अमंत्रमक्षरं नास्ति । नास्ति मूलमनौषधं ॥ अनाथा पृथिवी नास्ति । आम्नायाः | | खलु दुर्लभाः ॥ १॥ किं च भो वराह! तवाऽज्ञाने केवलं विद्यागर्व एव कारणं, तेन च तव सम्यग्ज्ञानं न ६ वर्तते, यतः-प्रभुप्रसादस्तारुण्यं । विभवो रूपमन्वयः ॥ शौर्य पांडित्यमित्येते । प्रोक्ता गारवहेतवः ॥१॥ अत्रांतरे तस्य वराहस्याग्रे केनचित् श्राद्धेनोक्तं-युष्मादृशाः कृपणकाः कृमयोऽपि यस्यां । भांतिस्म संतमसि | साप्यगमन्निशासी । सूर्याशुदीप्रदशदिग दिवसोऽधुनायं । भात्यत्र नंदुरपि कीटसमः किमु त्वं ॥ १॥ इति | वदन्नेव स श्राद्धस्ततो नष्टः. तत् श्रुत्वा स वराहो बाढं रुष्टः, लोकैश्च निंदितोऽतीवविषण्णो बभूव. अथैॐ कदा राजसभायां पुनर्निजकीर्तिविस्तरणार्थं वराहेण प्रोक्तं, राजन्नद्य पश्चात्प्रहरेऽकस्माजलदे वर्षति अत्रैव ॐ Page #10 -------------------------------------------------------------------------- ________________ Scanned by CamScanner COU भद्रबाहु चरित्रम् 16 सभामध्यस्थमंडले द्विपंचाशत्पलप्रमाणो मत्स्यो गगनमंडलात् पतिष्यति. तत् श्रुत्वा श्रीभद्रवाहुखामिभिः प्रोक्तं, स मत्स्य एकपंचाशत्पलप्रमाणः सभामध्यस्थमंडलाइहिः पूर्वदिशि पतिष्यति. ततः संध्यायामकस्मान्मेघे वर्षति गुरूक्तप्रमाण एव मत्स्यो गुरूक्तस्थान एव निपतितः, एवं गुरूक्तं सत्योसृतं ज्ञात्वा राज्ञा |ते श्रीभद्रवाहगुरवो भृशं सन्मानिताः, जैनधर्मश्च स्वीकृतः, अथ राज्ञापमानितो वराहो देशांतरं गतः, तत्र च भागवती दीक्षां गृहीत्वाऽज्ञानकष्टानि कुर्वाणो गुरुषु च द्वेषं वहन कियता कालेन मृतो जैनधर्मद द्वेषी व्यंतरोऽभृत्. तत्र निजविभंगज्ञानेन स पूर्वभवं स्मृत्वा जैनमुनीनामुपद्रवं विधातुं वांछतिस्म, परं ६ ६ तपोवज्रपंजरस्थानां मुनीनां किंचिदप्युपद्रवं विधातुं स समों न बभूव, ततोऽसौ श्राद्धगणानुपद्रोतुं लग्नः: 4 & तेषां गृहे गृहे स रोगोत्पत्तिं कर्तुं प्रवृत्तः, एवं रोगाविर्भावेन खिन्नाः श्रावकास्तद् वृत्तांतं श्रीभद्रबाहुगुरुभ्यो । A निवेदयामासुः, विज्ञप्तिं चक्रुश्च, भगवन् ! जगत्पूज्ये त्वयि विद्यमाने सति संघेन रोगोपद्रवपीडा कथं सोढुं। शक्यते? तत् श्रुत्वा गुरुभिरुक्तं, भो श्राद्धाः! यूयं भयं मा कुरुवं ? स एव वराहो मृत्वा व्यंतरीभृतः । पूर्ववैरात् संधं पीडयति, अहं च तूर्णमेव तस्योपायं करोमि, तेन सर्व वयं भविष्यति. ततस्तैर्गुरुभिः षड्- RSSTERSO-975 GALS5%EOSECASRASHex ॥९॥ Page #11 -------------------------------------------------------------------------- ________________ Scanned by CamScanner // 10 // भद्रबाहु | गाथामयं श्रीउपसर्गहरं स्तोत्रं रचयित्वा श्राद्धेभ्यो दत्तं, प्रोक्तं चास्य स्तोत्रस्य पाठकरणत एव सर्वोऽपि चरित्रम् रोगोपद्रवो नाशं यास्यति. स्तोत्रस्यास्य नित्यं पाठपरायणानां श्राद्धानां स व्यंतरो मनागपि प्रभवितुं है, 4 समथों न भविष्यति. किं चास्य पाठतः धरणेंद्रोऽपि तत्कालं प्रत्यक्षीभूय मनोवांछितं पूरयिष्यति. तत| स्तत्स्तोत्रपाठं पठत्सु श्राद्धेषु सर्वरोगोपशांतिर्जाता. ततः स्वार्थपरायणा लोका यत्र तत्र कायें तत्स्तोत्रपाठं कर्तु लग्नाः, धरणेंद्रं चैवं समाह्वयामासुः, तदा धरणेंद्रेण गुरुपाचे समागत्य विज्ञप्तिपूर्वकं तत्स्तोत्रतः प्रांत-13 || गाथापसारिता. तथाप्यद्यापि हृदये स्मृतं तदुपसर्गहरं स्तोत्रं सर्वविघ्नान्युपशामयति. एवं ते चतुर्दशपू-81 8 धराः श्रीभद्रबाहुस्वामिनो वहुकालं मह्यां विहृत्यानेकभव्यजीवांश्च प्रतिबोध्य स्वर्ग गताः, क्रमेण च | तेऽवश्यं मुक्तिं यास्यति. // इति श्रीभद्रबाहुस्वामिचरित्रं समाप्तम् // ACADRISHASURESHERECARE SARORS-CASEARTICS 2 // 10 //