________________
Scanned by CamScanner
भद्रबाहु
॥
३
॥
ASASARGERऊरवार
निकटस्थं विलोक्य तयोःश्रीयशोभद्रसूरिभद्रबाहुवामिनोर्गच्छभारं समर्प्य स्वयं कृतानशना धर्मध्यानपराः चरित्रम् है स्वर्ग जग्मुः. ततो मिथः परमस्नेहिलौ तौ श्रीभद्रबाहसंभृतिविजयी भव्यजनान् प्रतिबोधयन्तो भुवि विह रतः स्म. वराहश्च विद्वानभृत्, परं केवलं गर्वपर्वताधिरूढः सर्वानपि मुनीन् तृणवद्गणयामास. तेन गुरुभिस्तस्मै सूरिपदं न दत्तं, यतः-चारित्रेण विहीनः । श्रुतवानपि नोपजीव्यते सद्भिः॥ शीतलजलपूरिपूर्णः। कुलजेश्चांडालकूप इव ॥ १॥ ज्ञानं सतां मानमदादिनाशनं । केषांचिदेतन्मदमानकारणं ॥ स्थानं विविक्तं यतिनां विमुक्तये। कामातुराणामतिकामकारणं ॥२॥ ततोऽन्येद्युस्तेनं निजसहोदराद्भद्रबाहुस्वामिनःपार्थात् / | सरिपदं याचितं, तदा भद्रबाहस्वामिना प्रोक्तं, भो वत्स! त्वं विद्वानसि, क्रियावानसि, तत्वज्ञोऽसि परमगर्वाभिभूतोऽस, तेनैव च हेतुना गुरुभिरपि तुभ्यं सूरिपदं नार्पितं, अथाधुनाहं ते सूरिपदं कथं यच्छामि ? अतस्त्वं गर्व परित्यज? एवं भद्रबाहुस्वामिभिः प्रोक्तं वचनं तस्य न रुचितं, यतः कस्यापि कुशिष्यस्य गुरुभिरुक्तममृतोपमं वयं वचनमपि विषतया परिणमति. यतः-न दुर्जनः सज्जनतामुपैति । सुमिष्टवाक्यैरपि बोध्यमानः ॥ सिक्तः सुभक्त्या पयसा गुडेन । न निववृक्षो मधुरत्वमेति ॥१॥ अभव्यस्य हि सुकुमालमपि ।
SIDHAKHARA