________________
Scanned by CamScanner
भद्रबाहु
चरित्रम
॥४॥
BACAACADRI
गुरुवचनं कर्णशूलायते. एवं गुरूक्तं हितवचनमप्यवगणयता तेन वराहेण दीक्षा परित्यक्ता, मिथ्यात्वं गतश्च स पुनरपि द्विजवेषं जग्राह. वाराहिसंहिताख्यं नवीनं ज्योतिःशास्त्रं च तेन रचितं. ज्योतिःशास्त्रे च प्रवीणत्वाल्लोकानां निमित्तानि दर्शयन् स निजख्यातं प्रथयामास. लोकानां पुरश्च वदति, मया वाल्यत एव ज्योतिःशास्त्राभ्यासः कृतोऽस्ति, मयैकदा प्रतिष्टानपुराबहिर्वनमध्ये शिलोपरि लग्नं मंडितं, ततश्च प्रमादेन तल्लग्नममृष्ट्वैवाहं नगरमध्ये निजगृहे समायातः, रात्रौ सुप्तेन च मया स्मृतं, यत्तत्र शिलोपर्यालेखितं लग्नं मया न प्रमार्जितं, तेन च लग्नस्वामी सूर्यो मह्यं कोपं प्रयास्यति. इति विचार्य साहसं धृत्वा रानावेवोत्थाय तल्लग्नं प्रमाष्टुं वनेऽहं गतः, यावत्तत्र स्थानेऽहं प्राप्तस्तावन्मया तस्यां शिलायां सुप्तः सिंहो दृष्टः. तथापि निर्भयीभृय लग्नभक्त्या तस्य सिंहस्याधस्तात् स्वकर क्षिप्त्वा यावत्तल्लग्नमपसारयामि, तावत्तल्लग्नस्वामी सूर्यः प्रत्यक्षीभूय मामवदत, वत्स! दृढया तव लग्नभक्त्या साहसेन चाहं तवोपरि तुष्टोऽस्मि, अतस्त्वं वांछितं | वरं मार्गयस्व? तत् श्रुत्वा मया प्रोक्तं, भो सूर्यदेव! यदि त्वं ममोपरि संतुष्टोऽसि, तर्हि त्वं मां निजविमाने नीत्वा सर्व ज्योतिश्चकं दर्शय? तत् श्रुत्वा सूर्यो मां स्वविमाने नीत्वा स्थापयामास, ग्रहादीनां चारं च
GERCISRRCCIAL