Book Title: Avashyaksutra Niryuktirev Curni Part_1 Author(s): Sundarsuri, Pramodsagar Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 9
________________ श्रीधीरसुन्दरसू० आव०अवचूर्णिः ॥५॥ सति लोकप्रसिद्धं साक्षादिन्द्रियाश्रितं घटादिज्ञानं प्रत्यक्षमिति सिद्ध, अयुक्तमेतत् , इन्द्रियाणामचेतनत्वोपलब्धृत्वा. भावात , तथा चात्र प्रयोगः-यदचेतनं तन्नोपलब्धृ यथा घटः, अचेतनानि च द्रव्येन्द्रियाणि, न चायमसिद्धो हेतुः, यतो द्रव्येन्द्रियाणि निर्वृत्युपकरणरूपाणि । “निर्वृ युपकरणे द्रव्येन्द्रियमिति तत्वा०-२-१७ वचनात् , निवृत्युपकरणे च प्रदलमये, पुद्गलमयं च सर्वमचेतनं, तत्वतः पुनस्तत्रतमेवोपलब्धा, कथमिति चेदुच्यते, तद्विगमेऽपि तदुपलब्धार्थानुस्मरणात , तथाहि-कोऽपि पूर्व चक्षुषा विवक्षितमर्थ गृहीतवान् , यतः कान्लातरे देवविनियोगतश्चक्षुपः अपगमेऽपि | सति तमर्थ स्मरति, यदि चक्षुरेव दृष्ट्र स्यात्ततश्चक्षुषोऽभावे तदुपलब्धार्थस्मृतिन भवति, नहि आत्मना सोऽर्थोऽनु भूतः, किन्तु चक्षुषा, चक्षुष एव साक्षादृष्ट्रत्वेनाभ्युपगमात्, न चान्येनानुभूतान्यस्य स्मरणं स्यादतिग्रसंगात् , तस्मादात्मैवोपलब्धा, नेन्द्रियमिति । अवशब्दोऽअधाशब्दार्थः, अव-अधोधो विस्तृत वस्तु धीयते-परिच्छिद्यतेऽनेन इति अवधिः, अथवाऽवधिः-मर्यादा रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः, अवधिश्चासौं ज्ञानं चेत्यवधिज्ञानं, चोऽनंतरोक्तज्ञानद्वयेन सहास्य स्थित्यादिभिः साधर्म्यदर्शनार्थः, तथाहि-यावानेव मतिश्रुतयोरनं. तरोक्तः स्थितिकालोऽवधेरपि द्विधापि तावानेव, यथैव च मतिश्रुते मिथ्यादर्शनोदयतो विपर्ययरूपतामासादयतस्तथावधिरपि, तथाहि-मिथ्यादृष्टेस्तान्येव मतिश्रुतावधिज्ञानानि मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानानि भवन्तीति विपर्ययसाधर्म्य', यश्च मतिश्रुतयोः स्वामी स एवावधेरपीति स्वामिसाधर्म्य', तथा विभङ्गज्ञानिनस्त्रिदशादेः सम्यगदर्शनावाप्तौ युगपदेव मतिश्रुतावधिज्ञानानां लाभसंभव इति लामसाधर्म्य तथा परिः-सर्वतो भावे, अवनमवः, औणादि गाथा-१ ॥५॥ For Private & Personal use only Jain Education International wwww.ininelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 244