Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 11
________________ श्रीधीरसुन्दरसू० आव० अवचूर्णिः ॥७॥ विज्ञप्तिरुल्लसति, सा च क्वचित् कदाचित्कथंचित्यनेकविधा, ततो यथा मरकतादिमणेरशेषमलापगमे समस्तास्पष्ठदेशशक्तिव्यवच्छेदेन परिस्फुटरुपैका व्यक्तिर्जायते तथाऽऽत्मनोऽपि ज्ञानदर्शनचास्त्रिप्रभावतो निश्शेषावरणप्रहाणादशेषदेशज्ञानव्यच्छेदेन एकरूपाऽतिपरिस्फुटा विज्ञप्तिरुल्लसति, ततो मत्यादि निरपेक्ष केवलज्ञानं अथवा शुद्धं-केवलं, तदावरणकमलकलंकस्यावयवशोऽपगमात् , सकलं वा-केवलं, प्रथमत एव तदावरणविगमतः संपूर्णोत्पत्तिः, असाधारण वा केवलमनन्यसदृशत्वात् , अनंतं वा केवलं ज्ञेयानंतत्वात् , केवलं च तज्ज्ञानं च केवलज्ञानं, चशब्द उक्तसमुच्चयार्थः, अथवा मनःपर्यायज्ञानसारूप्यप्रदर्शक एव अप्रमत्तयतितामिसाधाद्विपर्ययाभावयु कत्वाच्च, पंचममेव पञ्चमक, प्राकृतत्वात स्वार्थे कः ।। ननु सकलमपीदं ज्ञानं ज्ञप्त्येकस्वभावं ततो ज्ञप्त्येकस्वभावत्वाविशेषे किंकृत एष आभिनिबोधिकादिभेदः, ज्ञेयभेदकृत इति चेत् , तथाहि - वर्तमानिकं वस्त्वाभिनिबोधिकस्य विषयः, त्रिकालसाधारणसमानपरिणामो बनेर्गोचरः श्रुतस्य, रूपिद्रव्याणि अवधेः, मनोद्रव्याणि मनःपर्यायस्य, समस्तपर्यायान्वितं सर्व वस्तु केवलज्ञानस्य, तदेतदयुक्त, एवं सति केवलज्ञानस्य भेदबाहुल्यप्रसक्तिः, तथाहि-ज्ञेयभेदाज्ज्ञानस्य भेदः, यानि च ज्ञेयानि प्रत्येकमाभिनिबोधिकप्रभृतिज्ञानानामिष्यन्ते तानि सर्वाण्यपि केवलज्ञाने विद्यन्ते, अन्यथा केवलज्ञानेन तेषामग्रहणप्रसंगात् , अथ उच्यत प्रतिपत्तिप्रकारभेदतः आभिनिबोधिकादिभेदः, तथाहि न यादृशी प्रतिपत्तिराभिनिबोधिकस्य तादृशी श्रुतस्य, किन्त्वन्यादृशी एवमवध्यादि ज्ञानानामपि प्रतिपत्तव्यं, ततो भवत्येव प्रतिपत्तिभेदाज्ज्ञानभेदः, तदप्ययुक्तं, | एवं सत्येकस्मिन्नपि ज्ञानेऽनेकभेदप्रसक्ते, तथाहि तत्तदेशकालस्वरूपभेदेन विविच्यमानमेकैकं ज्ञानं प्रत्तिपत्तिप्रकारा गाथा ७॥ www.jainelibrary.org For Private & Personal Use Only Sain Educ a tional

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 244