Book Title: Avashyak Niryukti Part 02
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

View full book text
Previous | Next

Page 389
________________ ૩૭૨ भसधारी डेभयन्द्रसूरिद्धृत टीप्पाड (भाग-२) 1 छच्चेव अद्धमासो अ । वीरवरस्स भगवओ एसो छउमत्थपरियाओ || १ || ' इतीहैव वक्ष्यमाणत्वात् केवलमिहाल्पत्वेन तदविवक्षेति लक्ष्यते । तदेवमिदं जिनानां ऋषभादिमहावीरपर्यवसानानां यथाक्रमं छद्मस्थकालपरिमाणं विज्ञेयं । एवं च छद्मस्थकालमानमभिधाय तपः कर्मस्वरूपप्रतिपादनायाह'उग्गं चे'त्यादि (४६-९), सर्वेषामपि तीर्थकृतां तपः कर्मोग्रम् - इतरजन्तुभिर्दुरध्यवसेयं, विशेषतो वर्द्धमानस्य सम्बन्धि तपो दुरध्यवसेयं, वक्ष्यमाणन्यायेन सोपसर्गत्वादपानकत्वाद्बहुत्वाच्च, सातिरेकद्वादशवर्षमानछद्मस्थकाले हि तस्य वर्षमप्येकादशभिर्दिनैर्न्यूनं पारणककालो वक्ष्यते, शेषं तु उपोषितस्तस्थौ, एतच्च सर्व्वमपानकं सोपसर्गं चेति शेषतीर्थकृद्भ्यो दुरध्यवसेयतममिति गाथायार्थः । इदं च चिरन्तनानुयोगपटदर्शनाद्यनुसारतो मया व्याख्यातं इति न स्वमनीषिका भाव्येति । अत्र कल्याणकैः सार्द्धं क्वचिद्व्यभिचारोऽपि दृश्यते, स तु न प्रतन्यते, केवलिगम्यत्वात्तन्निर्णयस्येति। शिष्यसङ्ग्रहरुपे सङ्ग्रहद्वारे यतिमानप्रतिपादनायाह- 'चुलसीति' गाहा, 'तिन्नि य' गाहा, 'छावट्ठी ' गाहा 'चोद्दस' गाथार्द्धं ( प ० - ४९) व्याख्या - आदितीर्थकृतः चतुरशीतिः सहस्राणि यतिशिष्यसङ् ग्रहप्रमाणं १, एकं लक्षं २ लक्षद्वयं ३ त्रीणि लक्षाणि ४ विंशतिसहस्राधिकानि त्रीणि लक्षाणीति ५ त्रिंशत्सहस्राधिकानि त्रीणि लक्षाणि ६ त्रीणि लक्षाणि ७ सार्द्धलक्षद्वयं ८ लक्षद्वयं ९ एकं लक्षम् १० चतुरशीतिः सहस्राणि ११ द्विसप्ततिः सहस्राणि १२ अष्टषष्टिः सहस्राणि १३ षट्षष्टिः सहस्राणि १४ चतुःषष्टिः सहस्राणि १५ द्विषष्टिः सहस्राणि १६ षष्टिः सहस्राणि १७ पञ्चाशत्सहस्राणि १८ चत्वारिंशत्सहस्राणि १९ त्रिंशत्सहस्राणि २० विंशतिः सहस्राणि २१ अष्टादश सहस्राणि २२ षोडश सहस्राणि २३ चतुर्द्दश सहस्राणि २४ । एवं चतुर्विंशतितीर्थकृतां सर्व्वसङ्ख्यायामागतं यतीनामष्टविंशतिर्लक्षाणि अष्टचत्वारिंशत्सहस्राणि आह च - " अट्ठावीसं लक्खा अडयालीसं च तह सहस्साइं । सव्वेसिंपि जिणाणं जईण माणं विणिद्दिवं ॥१॥ तदेतज्जिना-नामृषभादिवर्द्धमानान्तानां यथाक्रमं यतिशिष्यसङ्ग्रहप्रमाणं विज्ञेयमिति सार्द्धगाथात्रयार्थः । साम्प्रतं आर्यासङ्ग्रहप्रतिपिपादयिषया गाथादलेन प्रस्तावनामाह - आर्यासङ्ग्रहमानमृषभादीनामितोऽनन्तरं वक्ष्ये, तदेवाह - 'तिन्नेव य' गाहा 'लक्खं' गाहा 'सट्टी' गाहा ( ४९ - १२) व्याख्या - प्रथमतीर्थकृतस्त्रीणि लक्षाण्यार्यासङ् ग्रोऽभूदिति १ त्रिंशत्सङ्ग्रहस्राधिकानि त्रीणि लक्षाणि २ षट्त्रिंशत्सहस्राधिकानि त्रीणि लक्षाणि ३ त्रिंशत्सहस्राधिकानि षट् लक्षाणि ४ 'पंच य तीस 'त्ति त्रिंशत्सहस्राधिकानि पञ्च लक्षाणि ५ विंशतिसहस्राधिकानि चत्वारि लक्षाणि ६ त्रिंशत्सहस्राधिकानि चत्वारि लक्षाणि ७ अशीतिसहस्राधिकानि त्रीणि लक्षाणि ८ 'तिण्हमित्तो य'त्ति त्रयाणां तीर्थकृतां नवमदशमैकादशलक्षणानामित ऊर्ध्वं यथाक्रमं वक्ष्ये इति गम्यते, तदेवाह - 'वीसुत्तरं छलहियं तिसहस्सहियं लक्खं चे 'ति, अनन्तरलक्षशब्दस्येहापि सम्बन्धाद्विशतिसहस्राधिकं लक्षणं षड्भिरायिकाभिरधिकं लक्षं १० त्रिभि: सहस्त्रैरधिकं लक्षं ११ लक्खं चेति लक्षमेकम् १२ अष्टभिः शतैरधिकं लक्षं १३ द्विषष्टिः सहस्राणि १४ 'चउसयसमग्गं 'ति अनन्तरातिक्रान्तानि द्विषष्टिसहस्राण्यत्रापि सम्बन्ध्यन्ते, ततश्चतुर्भिः शतैः समग्राणि द्विषष्टिः सहस्राणि

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414