Book Title: Avashyak Niryukti Part 02
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala
________________
પરિશિષ્ટ-૧ % ૩૯૩ ज्ञानावरणीयस्य क्षयोपशमस्तस्माज्जातः, यदि नाम क्षायोपशमिको ज्ञानवृद्धिविशेषस्तथापि कथं तस्य ज्ञस्वरूपत्वमित्याह-'न ह्यय'मित्यादि (३५६-१), तत्स्वाभाव्यमिति-ज्ञस्वाभाव्यं, एतदुक्तं भवति-नायं ज्ञानवृद्धिविशेषोऽज्ञस्य युज्यते, दृषदोऽपि तत्प्रसङ्गाद्, इत्येवमित्याधुपसंहारः, ननु चात्मा ज्ञस्वभावः, पद्मरागस्तु प्रकाशस्वभावः, ततश्च यथा मलकलङ्कापगमेऽप्रतिस्खलितदीप्तिरपि प्रकाशस्वभावोऽपि न सर्वं प्रकाशयति, किन्तु कियत्पदार्थ-प्रकाशकत्वेनैव तस्य प्रकाशस्वभावत्वं, एवमात्मनोऽपि ज्ञानावरणाद्यपगमेऽपि कियत्पदार्थज्ञायकत्वेन ज्ञत्वं चरितार्थं, समस्तवस्तुज्ञत्वं तु नोपपद्यते इत्याशङ्कयाह-'न चाप्रतिबद्धे'त्यादि (३५६-६), उपपत्तिमाह-'तस्य ज्ञस्वभावत्वादि'त्यादि (३५६-७), ननु पद्मरागपक्षेऽपि शक्यत इदं वक्तुं, न हि प्रकाशक: प्रकाश्ये सति प्रतिबन्धशून्यो न प्रवर्त्तते, न चेत्थं दृश्यते, तस्य कियद्वस्तुप्रकाशनादिति तेनैव व्यभिचार इत्याशङ्कयाह-'न च प्रकाशके'त्यादि, कुत एतदित्याह–'तस्ये'त्यादि (६५७-१), यावति हि प्रदेशे स्वप्रभाजालं प्रसरति तावद्देशस्थमेव वस्त्वसौ प्रकाशयति, यत्तु अन्यत्र देशादौ कुड्यादितिरोहितं तद्देशादिविप्रकर्षादेव न प्रकाशयितुमलं, आत्मनोऽपि तर्हि देशादयो विप्रकर्षका भविष्यन्तीत्याह'न चात्मनोऽपी'त्यादि, अत्र युक्ति माह-'तस्यागमे'त्यादि (३५७-२), आगमेन चूडामणीकैवल्यादिलक्षणेन ये गम्यन्ते-प्रतिपद्यन्ते आगमगम्यास्तेषु, तानेव दर्शयति-सूक्ष्माःपरमाण्वादयो व्यवहिताः-समीपस्था अपि क्षित्याद्यन्तर्गता निधानादयः, विप्रकृष्टास्तु द्विधा-देशतः कालतश्च, तत्र देशतो दूरस्था अमरलोकादयः कालतस्तु चन्द्रोपरागादयस्तेष्वधिगतिःअवबोधस्तत्सामर्थ्यदर्शनान्न देशादय आत्मनो विप्रकर्षकाः, एतदेव साधयति–'तथा चे'त्यादि एतदुक्तं भवति-क्षायोपशमिकज्ञानवानपि तावत्सूत्रानुसारतः पर्यालोच्येदं कथयत्येव कश्चित्क्षितितिरोहितं वृक्षमूलं कीलको वाऽत्र विद्यते न त्वया गृहादिसन्निवेशोऽत्र कर्त्तव्यः सशल्यत्वात्, कूपादिखननोद्यतं वा पुरुष प्रति कथयति-एतावति मानेऽत्रोदक मुन्मीलयिष्यति, तथा सूत्रानुसारत एवामरलोकचन्द्रोपरागादिस्वरूपाधिगतिसामर्थ्य चोपलभ्यते, न च वक्तव्यम्-आगमस्यैव तत्सामर्थ्य न जीवस्य, यत आगमोऽपि नाचेतनस्य काष्ठादेर्जडप्रकृतेर्वा पुरुषान्तरस्य तद् ज्ञानं जनयितुमलं, तस्मादागमसव्यपेक्षक्षयोपशमवतो जीवस्यैव देशादिविप्रकृष्टार्थ-ग्रहणसामर्थ्य, आगमादिस्तु हेतुकलापः सहकारिकारणमेव, अस्य च सर्वस्यापि सर्वज्ञसाधकवचनसंदर्भस्य तात्पर्यं प्रयोगद्वारेणोच्यते-यो यावति प्रकाशयितव्ये समर्थः स प्रतिबन्धकाभावे तावत्प्रकाशयत्येव, यथा पद्मरागादिर्मणिविशेषः, सकलत्रैलोक्यान्तर्गतवस्तुप्रकाशकश्च पूर्वोक्तनीत्या जीवः तस्मात्तत्प्रकाशयत्येव, न च वक्तव्यं पूर्वोक्त नीत्या देशादिविप्रकृष्टवृक्षमूलादिकियत्पदार्थज्ञातृत्वेन भवत्वसौ ज्ञस्वभावो, लोकालोकान्तर्गतामूर्तेतरस्वरूपाकाशास्तिकायादिपदार्थज्ञातृत्वेन तु कथमात्मनो ज्ञत्वसिद्धिरिति ?, यतस्तेषामप्यदर्शने देशविप्रकर्षो वा निमित्तं स्यात्कालविप्रकर्षो वा निमित्तं स्यात्स्वभावविप्रकर्षो वा?, न तावद्देशविप्रकर्षस्तदज्ञातृत्वकारणं, देशविप्रकृष्टभौमादिग्रहस्वरूपस्येदानीमपि परिज्ञानात्,
Page Navigation
1 ... 408 409 410 411 412 413 414