Book Title: Avashyak Niryukti Part 02
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

Previous | Next

Page 413
________________ ૩૯૬ ૨ મલધારી હમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૨) शुद्धक्रियारम्भक्षणो न लभ्यते इति कारणाभावानिर्वाणाभाव इति, ननु च भवताऽपि पर्यायिक्षणस्य पर्यायरूपतया कथञ्चिदभाव इष्यते ततश्च भवन्मतेऽपि कथं पर्यायान्तरोत्पत्तिरित्याह-'तदभावस्य सर्वथाविशिष्टत्वा'दिति (३७०-१) तदभावस्य च सर्वदाऽविशिष्टत्वात् वृ०) एतदुक्तं भवतिअस्माभिः कथञ्चिच्छब्दविशेषितकारणा-भावस्याभ्युपगतत्वाधुज्यते पर्यायोत्पत्तिः, पर्यायिणः कथञ्चिदवस्थितत्वाद्, भवता तु कारणाभावस्य सर्वथाशब्दविशिष्टस्याभ्युपगमात्कुतस्तदुत्पत्तिः, ? क्वचित्सर्वदा विशिष्टत्वादितिपाठः तत्रापि विशिष्टत्वं कारणाभावस्य सर्वथाशब्दविशेषितत्वाद्दष्टव्यं, शेषं सुगम, समाप्त एकादशमः ॥ ॥ इति म. हेमचन्द्रसूरिकृतटीप्पणकस्य द्वितीयो विभागः समाप्तः ॥...

Loading...

Page Navigation
1 ... 411 412 413 414