Book Title: Avashyak Niryukti Part 02
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

Previous | Next

Page 397
________________ 3८० - भरधारी उभयन्द्रसूरिकृत टीप्पा (भाग-२) भवन्तीति गाथार्थः ॥ किंमयास्ते निधयो भवन्तीत्युच्यते-वेरुलियमणिकवाडा कणगमया विविहरयणपडिपुण्णा। पलिओवमद्वितीणं देवाणं ते उ आवासा ॥१॥ एतेषु च निधिषु नीतिपुस्तकाभरणवस्त्ररत्न-हिरण्यप्रहरणातोद्यादयः पदार्थाः समुत्पद्यन्ते, ते च सविस्तराः स्थानाङ्गादिभ्योऽवसेया इति। अस्य च भरतचक्रिण एकेन्द्रियस्वरूपाणि चत्वारि रत्नानि चक्रच्छत्रदण्डखङ्गरत्नलक्षणान्यायुधशालायामुत्पन्नानि, चर्मरत्नमणिरत्नकाकिणीरत्नानि तु श्रीगृहे, सेनापतिगृहपतिवर्द्धकिपुरोहितरत्नानि तु पञ्चेन्द्रियस्वरूपाणि चत्वारि विनीतायां नगर्यां, गजतुरगरत्ने तु वैताढ्यमूले, स्त्रीरत्नं तु विद्याधरेभ्य उत्पन्नमिति । 'पंडुल्लकियमुही' (८०-८ ), पाण्डुविच्छायमुखीत्यर्थः । इति चक्रिविजयवक्तव्यता। अङ्गारदाहक-दृष्टान्तः-किल कश्चिदङ्गारविक्रयी तदर्थमरण्यं ययौ, तृडार्तो गृहे कृच्छ्रेणागतो मूच्छितः पतितः स्वप्नं पश्यति-यथा जलं पिबता मया सर्वेऽपि समुद्रसरित्तडागकूपादिजलाशयाः तिर्यग्लोकवर्त्तिनो निष्ठां नीतास्तथापि पिपासा न शाम्यति, अतोऽपरजलाशयान्वेषणप्रवृत्तेन तुच्छजलो जीर्णकूप एको दृष्टः, तत्र च रज्जुबद्धः कुशपूलकः क्षिप्तः स च जलं मुञ्चन् कतिपयजलबिन्दुयुक्तस्तोरदेशमागतः, तज्जलं स पातुमारब्धः, तत्कि यस्य समुद्रादिजलैः पिपासोच्छित्ति भूत् तस्य तैः कतिपयबिन्दुभिरसौ भविष्यति ?, एवं युष्माभिरपीत्यादि उपनयः सुगम एव । वैतालीयाध्ययनं (८२-४) सूत्रकृताङ्गद्वितीयाध्ययनमिति । 'श्रावकाणां न सन्ति व्रतानी'ति (९६-१), निरुपचरितानि परिपूर्णानि व्रतानि किल महाव्रतान्येवोच्यन्तेऽतस्तदभावाच्छ्रावकाणां व्रतानि न सन्तीत्युच्यते, यानि तु सन्ति तान्याह-'किन्त्वि' त्यादि । 'अनार्यास्तु पश्चात्सुलसायाज्ञवल्क्यादिभिः कृता' इति (९९-२), इह भावार्थः कथानकगम्यः, तच्च संक्षेपादिदं-इह सुलसासुभद्रानामकं परिव्राजिकाद्वयमासीत्, सुलसा अतीवानेकशास्त्रकोविदा; अत्रान्तरे याज्ञवल्क्यनाम्ना परिव्राजकेन यो मां वादे विजयते तस्याहं शिष्य इत्युद्घोषणापूर्वकं पटहो दापितः, सुलसया च जितोऽसौ, तच्छिष्यत्वं चानेन प्रपन्नम्, अतिपरिचये च तयोरकार्यप्रवृत्तिरभूद्, गर्भश्च सुलसायाः समभवद्, विज्ञाते च सुभद्रया निष्ठुरमुपालब्धाऽसौ, प्रच्छन्ने च धृता, अन्यस्मिंश्च वासरे रात्रौ पुत्रं प्रसूता, अविज्ञाता च सुभद्रया पिप्पलवृक्षस्याधस्तात्पुत्रं परित्यज्य परिव्राजकेन सह रजन्यामेव निजंगाम, प्रातश्च पदानुसारेणान्वेषयन्त्या सुभद्रया डिम्भो दृष्टः, अयं च बुभुक्षितो विस्रसातः पिप्पलफलं मुखे पतितमास्वादितवानिति पिप्पलाद इति नाम तस्य कृतं, वृद्धिं नीतः, पाठितश्चासौ सुभद्रया, वाग्ग्मी चातीव जातः, श्रुतमातृपितृसम्बन्धश्च मातरि पितरि च प्रद्वेषमापन्नोऽनार्यान् वेदाँश्चकार, तेषु चेदं प्ररूपितवान्-यदुत राजभिरशिवादिशान्तिनिमित्तं स्वर्गावाप्तये च पशुतुरगगजमानुषादिभिर्यागः करणीय इति. तस्य च 'अलिएहि य वसुराया' इत्यादिकथानकप्रसिद्धः पर्वतको नाम मित्रमभूत्, तेन चोक्तं-अजैर्यष्टव्यमिति वेदेऽपि प्रतिपादितमेवेति शोभनं त्वया प्ररूपितमिति । अपरं च मधुनामा राजपुत्रः कुत्रचित् स्वयंवरमण्डपमिलितसमस्तराजवर्गेणापमानितस्तेषु च प्रद्वेषमापन्नो मृत्वा व्यन्तरेषूत्पन्नः, स चाचिन्तयद्-भव्यमिदं परिव्राजकसुतेन परिकल्पितं,

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414