Book Title: Avashyak Niryukti Part 02
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala
________________
३८६
મલધારી હેમચન્દ્રસૂરિષ્કૃત ટીપ્પણક (ભાગ-૨)
६), यद्ग्रहो नाम यो यत्प्राप्स्यति तस्यैव तदित्युद्घष्टमिति । 'होडीओ नाम' (२६२-८), लूषक पुरुष: । 'वरं तेण समं मम तम्मी त्यादि ( २६३ - ५ ), चम्पायां नगय्यां यस्य कस्यचित्सत्का भविष्यति तस्यैवैनां समर्पयिष्यामि, ततस्तेन सह मम गमनागमनं मैत्री भविष्यतीति भावः । 'ताए ( ताहे वृ० ) सो पेल्लिउत्ति (२६५ - १ ), तया मूलया सपरिजनोऽनन्तरोक्तवचनेन भेषित इति भावः । 'बहिरकुहंडिय'त्ति (२६५ - १ ), तालितद्वारा कृतेति भावः । 'मम भगिणीधूअ ' त्ति (२६६ - ७), किल मृगापत्या भगिनी पद्मावती दहिवाहनेन परिणीता धारिणी च पद्मावत्यांः सपत्नीतिकृत्वा धारिण्यपि मृगापत्या भगिन्येवेति भावः । 'को ह्यात्मा भगवानाहे 'त्यादि (२६८५), परिज्ञानपरीक्षानिमित्तं द्विजेन भगवान्पृष्टः- क आत्मेति, किं पञ्चभूतात्मक उत तद्व्यतिरिक्त इत्येवं पृष्टे भगवान् प्रत्युत्तरयति—' योऽहमित्यभिमन्यत' इति, सुख्यहं दुःख्यहमित्यादिअहंप्रत्ययकर्तृत्वेनात्मानं योऽभिमन्यते - निद्दिशति स पञ्चभूतव्यतिरिक्तो ऽन्तर्मुखवृत्त्याऽहंप्रत्ययग्राह्य आत्मेति भावः, एवं भगवता प्रोक्ते द्विजः प्राह - ' स कीदृश इति शरीरतया परिणतभूतव्यतिरिक्तं हि न कञ्चिदात्मानं पश्यामो, यदि पुनरसा तद्व्यतिरिक्तः कश्चिदस्ति तदा कीदृशोऽयमिति तस्य स्वरूपं वाच्यमिति द्विजेन पृष्टे त्रैलोक्यबन्धुराह-'सूक्ष्मोऽसाविति (२६८-६), इदमुक्तं भवति - अमृर्त्तत्वात्कर्मसम्बन्धापेक्षया कथञ्चिन्मूर्त्तत्वेऽपि कर्म्मपुद्गलानां सूक्ष्मत्वाच्चानतिशयिनामगम्यत्वात् सूक्ष्मोऽसौ ततश्च सूक्ष्मत्वेनायं न दृश्यते, न पुनरसत्त्वेनेति भावः । इत्येवं च तीर्थकृताऽभिहिते सूक्ष्मं किमुच्यत इति सामान्येनैव सूक्ष्मस्य स्वरूपमजानानो द्विजः पृच्छति - ' किं तत्सूक्ष्ममिति ?', सूक्ष्मस्य स्वरूपमेवाह, न वेद्मि किं तत्सूक्ष्ममिति, अत्र भुवनगुरुराह - 'यन्न गृह्णीमः' इत्यत्र यदनतिशयिना छद्मस्थेन करणैर्ग्रहीतुं न शक्यते तत्सूक्ष्ममिति, अत्र भगवद्विवक्षामजानानो विप्र आह- 'ननु शब्दगन्धानिला' इति, ननुशब्दः प्रश्नाक्षेपे, ननु यदि यन्न गृह्यते तत्सूक्ष्ममभ्युपगम्यते तदा शब्दानिलंगन्धादयश्चक्षुषा न गृह्यन्ते, अत एतेऽपि किं सूक्ष्मा इत्यत्र भगवानाह - 'नेति' हन्त नैते शब्दादयः सूक्ष्माः, कुंत इत्याह'एते इन्द्रियग्राह्या' इति एते इन्द्रियग्राह्यत्वान्न सूक्ष्मा इत्यर्थः, एतदुक्तं भवति - नैतन्मया विवक्षितं यदुत यच्चक्षुषा न गृह्यते तत्सूक्ष्मं, किन्तु सर्वैरेवेन्द्रियैर्यन्न गृह्यते, हृषीकातिक्रान्तज्ञानपरिच्छेद्यं तत्सूक्ष्ममिह प्रतिपिपादयिषितं एते तु शब्दगन्धानिला यथाक्रमं श्रोत्रघ्राणस्पर्शनेन्द्रियग्राह्या इति कुत एतेषां सूक्ष्मत्वप्रसङ्ग इति । इन्द्रियग्राह्याः शब्दादय इति यदुक्तं भगवता तदुपजीव्य ब्राह्मण आह'ते न ग्रहणमात्मे 'ति, गृह्णातीति ग्रहणमिति कर्त्तरि ल्युट्प्रत्ययः, ततश्च ते - तव न वस्तूनां ग्राहक आत्मा प्राप्नोति शब्दादीनामिन्द्रियग्राह्यत्वेनाभिधानाद्, एतदुक्तं भवति एते इन्द्रियग्राह्या इति भवता प्रतिपादितं, एवं पञ्चेन्द्रियाणि वस्तूनां ग्राहकाण्युक्तानि भवन्ति नात्मेति, अत्र भगवान् सिद्धसाध्यतां मन्यमान आह-'ननु ग्राहयिता स' इति, इदमुक्तं भवति - इन्द्रियाणि ग्राहकाणीत्यभ्युपगम्यत एवास्माभिः, जीवस्तु ग्राहयिता, तथाहि - अर्थमिन्द्रियाणि गृह्णन्ति जीवस्तु तानि तत्र प्रयुङ्क्ते, अतो वस्तूनां ग्राहकाणीन्द्रियाणि ग्राहयिता जीव इति न किञ्चिदनिष्टं करणविवक्षया करणान्यप्यमूनि भवन्ति,
Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414