Book Title: Ashwadhatikavya Author(s): Nilanjana Shah Publisher: ZZ_Anusandhan View full book textPage 6
________________ 63 आटीकसेऽङ्ग ! करिघोटीपदातिजुषि वाटीभुवि क्षितिभुजां चेटीभवंस्तदपि शाटी न ते वपुषि वीटी न वाऽधिवदनम् । कोटीररत्र परिपाटी भृशाऽरुणितजूटीविधुं तनुलसत्पाटीरलिसिमिभघाटीजुषं सुरवधूटीनुतां भज शिवाम् ॥ ५ ॥ पण्डावदग्रिम ! पिचण्डाऽवपूर्तिमनुरण्डाविधेयकुटिलोद्दण्डाविवेकधनिचण्डालगेहभुवि दण्डाऽऽहतिं किमयसे । खण्डमृतद्युतिशिखण्डामुपास्व सुरखण्डार्चिताङिनकमलां भण्डासुरद्रुहमचण्डात्मिकां चितिमखण्डां जडात्मसुखदाम् ॥ ६ ॥ गाढा त्वया सपदि राढापुरी वसुनि बाढाऽवबद्धरतिना सोढा तथा तपनगाढाऽऽतपप्रसररूढाऽतिवृष्टिविततिः । मूढाऽपि किं फलमगूढा जरेव शिरसोढा कुतो न विनुतो द्रोढा जनोर्जनितषोढामुखः समिति वोढा स हाटकगिरेः ॥ ७ ॥ दन्तावलाश्वभृति चिन्तापरोऽसि बत किं तावता वद फलं हन्ताऽखिलं क्व च न गन्ता तदेतदथ संतापमञ्चसि परम् । त्वं तात ! भावय * दुरन्तारमानवरतं तामसः स्वपिहि मा संतारकं विनतसंतानकं सपदि तं तावदाश्रय शिवम् ॥ ८ ॥ वन्दारुलोकततिमन्दारपादयममन्दायमानकरुणं वृन्दावनोढपशुवृन्दाऽवनं प्रणतवृन्दारकं चरणयोः । नन्दाऽऽदृतं कुशलसन्दायि तत्किमपि कन्दायितं श्रुतिगिरां कुन्दाभकीर्ति मुचुकुन्दार्चितं हृदि मुकुन्दाह्वयं स्मर महः ॥ ९ ॥ कोधाऽऽकुलो विगतबोधाऽन्वयोऽसदनुरोधाऽनुगो न भव भोः साधारणी न खलु बाधा भवस्य भुवि गाधा न मोहवसतिः । वेधा गुरुश्च पटुमेधा विभुर्नहि निषेधाय कर्म विततेराधाय तात हृदि राधाविटाऽङ्घ्रियुगमाधारतां व्रज मुदाम् ॥ १० ॥ ★ दुरन्ता रमाऽनवरतं ० इति स्यात् । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14