Book Title: Anusandhan 2016 05 SrNo 69
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
मार्च - २०१६
तदशर्मदकर्मनोदना-दनुभूता बहुशो निगोदभीः । बत तत्समये मदतिहा, यदभूद् दूरतरो भवान् प्रभुः ॥७॥ नरकादिगतिव्यथाकथा, अलमुक्त्वा तव नेतुरग्रतः । जडबुद्धिरिह प्रबोधितो, यदहं त्वद्वचसैव केवलम् ॥८॥ प्रतिपद्य नु दैवतं पदं, भृशमासं विषयैर्विमोहितः । अथ तैः पुनरप्यहं हहा, प्रतिकूले त्वयि तात! ताडितः ॥९॥ जगदीश! कथञ्चिदर्जितं, शिववाऽपि नृजन्म यन्मया । निरपाति तदप्यनन्तशो, मुषितोऽहं बत मोहकर्मणा ॥१०॥ अमुनैवमिहाऽऽत्मविद्विषा, वशमानाय्य भटैः क्रुधादिभिः । अहमेष मुहु[:] प्लवङ्गमः, प्रतिगेहं बटुनैव नर्तितः ॥११॥ त्वयि सत्यपि मत्पतौ च मां, यदि दुन्वन्ति रुषादयोऽरयः । अपनेष्यति तद्यनाथता-ऽपयशो मे सकलाधिनाथ! कः ? ||१२|| उपवेशय तावके क्षमा-वरणे मां त्रिजगच्छिरोमणे! । अशमो मृगराडिवाऽन्यथा, हुडदारं नु हहा! हरिष्यति ॥१३॥ अभिमानरुजा जितं वपु-र्मम सर्वज्ञभिषग्विभूषण! । अथ पायय मार्दवामृतं, त्वरितं येन भवेयमव्यय[:] ॥१४॥ रचितं च मयाऽऽत्मवञ्चनं, छलजालं कृमिणेव कुर्वता । लसदार्जवदण्डखण्डितं, मदबन्धाय विधेहि तद् विभो! ॥१५॥ अहमस्म्यसमाधिबाधितो, बहुलोभानलतापतापितः । जिन! निर्ममताघनच्छटा-लहरीभिः कुरु मामनाकुलम् ॥१६॥ पिशुनेन हसेन हास्यतां, गमितोऽहं करुणां दशां गतः । दिश तन्महिमाप्ति(प्त)ये हि मां, वरवैराग्यरसं जगद्गुरो! ॥१७॥ इव गेन्दुकमन्तरागतं, ललता(तो) रत्यरती निहत्य माम् । अधुना विधिनाऽपसार्य ते, कुरु, भतः(तः!) समताभुवि स्थिरम् ॥१८|| भय-शोचनभावकस्य मे, भय-सोकाभिभवो व्यवर्द्धत । मुनिनाथ! तथा यतस्व तौ, न पुनर्मां स्पृशतो भवान्तरे ॥१९॥ तनुसम्भवमस्मरन् मुधा, यदबीभत्सत मन्मनोऽशुचिम् । अभवं ननु तेन तन्मयः, सदयोद्धारय मां ततोऽधुना ॥२०॥

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 198