Book Title: Anusandhan 2014 03 SrNo 63
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 11
________________ २०१४ [ श्रीअभिनन्दनजिनस्तवनम् ] रजःप्रभञ्जनो मुक्ति-कामिनीमुखमण्डनम् । चन्दनं क्लेशतप्तानां, नन्दतादभिनन्दनः ॥ १ ॥ कौतुके (कं) तेऽपि वाञ्छन्ति, संसारे शिवसम्पदम् । ये स्वप्नेऽपि न पश्यन्ति, त्वन्मूर्तिं शर्मकार्मणम् ॥२॥ वारि-वारिज-नीहार-हार - शीतांशुरश्मयः । अन्त:तापमुचां युष्मद्-वाचां बहु तृणं पुरः ||३|| त्वयि प्रसन्ने पश्यामो, लुठन्तीं मुक्तिमग्रतः । स्वाधीन भास्वतो ध्वान्त-ध्वंसः किं नाम दुर्लभः ? ||४|| क्लाम्यतां पारवश्याग्नि- ज्वालाभिरभितः सताम् । पद्मचक्राञ्चिता त्राणं, त्वत्पादसरसी परम् ॥५॥ मां सलावण्यसौरभ्य-मांसलाऽनन्तवस्तुभिः । सपर्याया सपर्याया-मुत्सुकं ते करोतु वाग् ॥६॥ भवति प्राणिनो यस्य, भवति प्रीतिरन्वहम् । वसतीश ! स्वत्रन्तत्व- वसती शर्मणो रमाम् ॥७॥ काञ्चनाभ! श्रियं त्वत्तः काञ्चनाऽहं वृणोमि ताम् । यस्यां पुण्यमपुण्यं च, क्षयं याति समन्ततः ॥८॥ शङ्खवज्राञ्चितौ पादौ, यस्य ते न प्रसीदतः । शं खवर्गप्रवासोत्थं, शाश्वतं किं स भोक्ष्यते ? ॥९॥ याऽतियाति स्वयं द्रष्टुं दृष्टिं तीर्थान्तरां नृणाम् । सापराधा ध्रुवं देव!, सा पा (प) राक्रियते त्वया ॥१०॥ परा यत् तावदाधत्ते, सेवास्ते मानुषं क्षणम् (?) । परायत्ता वदान्यस्य, तस्याऽपि न शिवश्रियः ॥ ११ ॥ पाति पातितपञ्चेषु-या(र्या) ते मूर्त्तिर्जगत्त्रयम् । तनुतां तनुतां नाथ!, सा सर्वस्य ममाऽहंसः ॥१२॥ रोमाञ्चपक्ष्मलतनुः कनकाभिराम !, चन्द्रांशुपुञ्जधवलं भवतो गुणौघम् । यः स्तौति संस्मरति गायति च त्रिसन्ध्यं तत्र स्वयं भगवती समुपैति मुक्ति: ॥१३॥ Jain Education International *** For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 198